________________
कातन्त्रव्याकरणम्
न चास्मिन् पक्षे सूत्रे त्वयीति निर्देश एव युज्यते इति वाच्यम्, सूत्रत्वादेव तस्याप्रसङ्गात् । ननु अर्थपरपक्षेऽपि युष्पच्छब्दप्रयोग एव विधिः स्यादिति चेत्, 'पतितं वेत्स्यसि क्षितौ' इत्यत्र वाक्यालङ्कारे वामनेन कथं पदभङ्ग उक्तः, युष्मदर्थस्यासिशब्दस्य प्रयोगे वेत्सीति मध्यमाप्राप्तेः? नैवम्, असीति वाक्यालङ्कारमात्रे प्रयोगात्, तेन वेत्सीति त्वमित्यध्याहारेण साधुः, युष्मदर्थवाचकोऽसीत्यव्ययो वा । अपरे तु युष्मदीत्यर्थपरनिर्देशेऽपि भवच्छब्दप्रयोगे न भविष्यतीति भवदर्थस्य युष्मदर्थभिन्नचात् । तथाहि युष्पच्छब्देन युष्मदर्थेऽभिधीयमाने युष्मत्त्वप्रकारेणैवाभिधीयते भवच्छब्देन तु भवत्त्वप्रकारेणेति प्रकारभेदादर्थभेद इति । पर्यायता तु प्रयोगदशायां वास्तविकार्थमादाय एवेति । यथा वृक्षमहीरुहयोः पर्यायत्वेऽपि वृक्षत्वज्ञानेन महीरुहत्वप्रकारस्य न ज्ञानम् । तथा चोक्तम् -
पर्यायता नास्त्यभिधेयमात्रे सा वस्तुत्ता विहितैव यस्मात् ।
एकार्थतायामपि युष्मदर्वे भवान् करोतीति न मध्यपः स्यात् ॥ एतत्तु नातिपेशलम् । यथा वृक्षमहीरुहज्ञाने वृक्षत्वमहीरुहत्वप्रकारयोर्भेदमुपलभामहे, तथा नात्रेति । अपरे तु अर्थवच्छब्दानुकरणमेवाहुः । तेन भवान् करोतीत्यत्र युष्मत्शब्दाभावान्न मध्यमः । ‘अतित्वं करोति' इत्यत्र युष्मदर्थस्य गौणत्वादेव न विधिः, यस्मात् प्रधानाप्रधानन्यायेन प्रधानीभूत एव युष्मदर्थ आश्रीयते इति । 'परमत्वं करोषि' इति युष्मदर्थस्य प्रधानत्वाद् विधिः प्रवर्तते । वस्तुतस्तु अर्थपर एवायं निर्देशः, शब्दपरत्वे लक्षणापत्तेः । तर्हि भवच्छब्दाभिधेयेऽपि स्यात् ? सत्यम् । त्वयीति निर्देशे प्राप्ते यद् युष्मदीति निर्दिष्टं तद् युष्मदर्थविशिष्टयुष्पच्छब्द एवेति न किञ्चिदनुपपन्नम् । प्रयुज्यमानग्रहणं किमिति वृत्तिः। प्रयुज्यमानग्रहणस्यार्थाश्रयणेन किमित्यर्थः ।। ४२२।
[समीक्षा] द्र० - पूर्ववर्ती सूत्र की समीक्षा । [विशेष वचन] १. अर्थाश्रयो हि गौणमुख्यव्यवहारो न शब्दाश्रयः (क० च०)।
२. युष्पच्छब्देन युष्मदर्थेऽभिधीयमाने युष्मत्त्वप्रकारेणैवाभिभवच्छब्देन तु भवत्त्वप्रकारेणेति प्रकारभेदादर्थभेद इति । पर्यायता तु प्रयोगदशायां वास्तविकार्थमादायैवेति (क० च०)।
३. पर्यायता नास्त्यभिधेयमात्रे सा वस्तुसत्ता विहितैव यस्मात् ।