________________
२९
तृतीये आख्याताध्याये प्रथमः परस्मैपादः [दु० वृ०]
युष्मदि प्रयुज्यमानेऽप्रयुज्यमानेऽपि मध्यमः पुरुषो भवति । त्वं पचसि, युवां पचथः, यूयं पचथ । अप्रयुज्यमानेऽपि पचसि, पचथः, पचथ | एवं सर्वत्र | प्रयुज्यमानग्रहणं किम् ? त्वया पच्यते ओदनः ।। ४२२।
[दु० टी०]
युष्मदि० । शेषात् कर्तरि परस्मैपदम् आत्मनेपदानि भावकर्मणोरिति वाक्यैकदेशेनोपदिष्टानां प्रकर्षविशेषाभिधायको वाक्यावयवोऽयं तथा पूर्वोत्तरावपि योगाविति ||४२२।
[क० च०]
युष्मदि० । ननु युष्मदीत्यर्थपरः शब्दपरो वा निर्देशः ? आद्ये भवान् करोतीति मध्यमः स्यात् । प्रयुज्यमानग्रहणान्वयश्च न स्यात्, शब्दस्यैव प्रयोगसम्भवात् । द्वितीये तु 'परमत्वं करोषि' इत्यत्र मध्यमो न स्यात् (उपपदत्वाभावात्) न ह्यत्र युष्पच्छब्दः (उपपदम्) किन्तर्हि परमयुष्मच्छब्द इति, न चात्र तदन्तविधिरिति वाच्यम्, 'ग्रहणवता लिङ्गेन न तदन्तविधिरिति निषेधात् । अथ अस्याः परिभाषायाः अनित्यत्वाङ्गीकार इति, तथापि 'अतित्वं करोति' इत्यत्रापि मध्यमः स्यात् । न च गौणत्वादेव न भविष्यतीति वाच्यम् ‘अर्थाश्रयो हि गौणमुख्यव्यवहारो न शब्दाश्रयः' इति न्यायात् । अत्र केचिच्छब्दपर एव युष्पच्छब्दः, किन्तु प्रयुज्यमानग्रहणान्वयबलेन मुख्ययोगलाभ इति व्याख्यातम् । अर्थद्वारक एव शब्दानां प्रयोगो भवतीति शब्दपरत्वेऽपि अर्थोपस्थितिः, अतो गौणमुख्ययोगव्यवहारेण प्रकृष्टयोगे विधिरयम्, तथा च सति मुख्यार्थमादाय समानाधिकरणे युष्मदि प्रयुज्यमाने मध्यम इति सूत्रार्थः प्राप्तः । तेन ‘परमत्वं करोषि' इत्यत्र युष्मदो मुख्यार्थत्वेन मध्यमः प्रवर्तते एव ।
_ 'अतित्वं करोति' इत्यत्र बहुव्रीहिणाऽन्यपदार्थस्य वाच्यत्वेन युष्मदो गौणत्वान्न तत्र विधिरिति । अन्ये तु अर्थपरोऽयं निर्देशः, तर्हि 'भवान् करोति' इत्यत्रापि मध्यमः स्यादिति चेत् ? सत्यम्, अर्थपरत्वेऽपि प्रयुज्यमानग्रहणा-(न्वयादेव) नर्थक्यभयादेव तद्वाचकशब्दप्रयोगे भविष्यति, तर्हि भवत्शब्दप्रयोगेऽपि स्यादिति पूर्व एव दोष इति चेत्, नैवम् । युष्मदर्थवाचके शब्दे गृह्यमाणे श्रुतत्वाद् युष्मच्छब्दप्रयोगे एव भविष्यतीत्याहुः । यद् वा युष्मदीत्यनुकरणसामर्थ्याद् युष्मदर्थकयुष्पच्छब्दप्रयोगे एव भविष्यति, अन्यथा त्वयीति निर्दिशेत् । [न चास्मिन् पक्षेऽनुकरणस्यान्यत् फलमस्ति ।