________________
१४
कातन्त्रव्याकरणम्
स्थितानीति यथासङ्ख्यं न विरुध्यते, न च वैषम्येणानेकसंज्ञाभिरेकस्य प्रयोजनमस्ति शास्त्रे इत्याह - परस्मैपदानामित्यादि । किञ्च "इजात्मने पदेः प्रथमैकवचने" (३।२।२९) इति ज्ञापकाद् व्यवहितमपि परस्मैपदमनुवर्तते । अनुगतार्था अपि प्रथमादयः शब्दा न विशेष्यलिङ्गभाजः, पुरुषा ह्येते लोकतः सिद्धाः। तथा च – “युगपद्वचने परः पुरुषाणाम्" (३।१।४) इति वक्ष्यति, अतः पुंलिङ्गनिर्देशः ।।४१९ ।
[वि० प०]
त्रीणि त्रीणि० । अत्राप्यथशब्दानुवर्तनात् त्यादिवर्तते । स च परस्मैपदात्मनेपदविभागेन स्थित इति । तेन व्यवहितस्यापि परस्मैपदस्यानुवर्तनमित्याह – परस्मैपदानामात्मनेपदानां चेति । त्रीणि त्रीणीति वीप्सायां द्विर्वचनम्, वीप्सा चात्र प्रथमादिगुणेनैव, प्रथमादयो हि नपुंसकस्य विशेषणम् भवन्तोऽपि न विशेष्यलिङ्गभाजः । एते हि लोके पुरुषत्वेन प्रतीताः। तथा च - "युगपद्वचने परः पुरुषाणाम्" (३।१।४) इति वक्ष्यति । अतः प्रथममध्यमोत्तमा इति पुंलिङ्गनिर्देश: । अर्थकृतमिह यथासङ्ख्यं न शब्दकृतमिति शब्दसाम्याभावात् । तथाहि परस्मैपदानि नव नव वचनानि प्रथममध्यमोत्तमाश्च त्रय इति कथं शब्दसाम्यमिति । अर्थकृतं तु भवत्येवेति यतस्त्रीण्येव त्रिकाणि, एवमात्मनेपदेष्वपि ।। ४१९ ।
[क० च०]
त्रीणि० । परस्मैपदानामात्मनेपदानां चेति वृत्तिः । ननु कथमेतत् संगच्छते, यावता अनन्तरत्वादात्मनेपदस्यैवानुवृत्तिः प्राप्नोति, न तु परस्मैपदस्यापि तस्य व्यवहितत्वात्, नैवम् । 'विशेषातिदिष्टः प्रकृतं न बाधते' (का० परि० १९) इति न्यायात् त्यादिरेवात्र प्रतीयते इत्येतदेवाह - अत्रापीति । ननु तथापि त्यादीनां त्रीणि त्रीणि प्रथममध्यमोत्तमादिसंज्ञाविशिष्टानि भवन्तीत्युक्ते एकैकस्य तितसादे: संज्ञात्रयविधानेन प्रयोजनाभावात् ति प्रथमः, तस् मध्यमः, अन्त्युत्तम इत्यादिक्रमेणैव प्रथमादिसंज्ञाः स्युरिति, नैवम् । त्रीणि त्रीणीत्यपास्य त्यादीनि प्रथममध्यमोत्तमाः इत्यादि सूत्रं विदध्यात्, एवं च यन्न कृतं तस्माल्लक्षणया त्रिशब्दस्य त्रिकमेवार्थः । यद् वा "इजात्मने पदेः प्रथमैकवचने" (३।२।२९) इत्यत्र यदि पूर्वयुक्त्या ते: प्रथमादिसंज्ञा स्यात् तदा एकवचनग्रहणं व्यर्थमेव स्यात् (प्रथमेति क्रियमाणे सिद्धमिति भावः) । तेन त्यादीनां त्रिकाणि त्रिकाणीत्यर्थः प्राप्तो भवतीति भावः ।
वृत्तौ वचनानीति यदुक्तं तदुपलक्षणमित्यर्थः । ननु यदि त्यादिरनुवर्तते तदा कथं त्यादीनामित्युक्त्वा परस्मैपदानाम् आत्मनेपदानां चेत्युक्तमित्याशङ्क्याह – स