________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
चेत्यादि । अथ तथापि त्यादीनां त्रिकाण्यनेकानि प्रथममध्यमोत्तमाश्च त्रय इति कथं यथासंख्यमिति मनसिकृत्याह - व्यवहितेत्यादि । तथा च सति परस्मैपदात्मनेपदविभागेन स्थितानां त्रिकाणां त्रित्वावगमात् साम्यमस्तीति यथासंख्यं सुतरामेव घटते इति । ननु तथापि कथं यथासंख्यं सर्वविभक्तिगतत्वेन परस्मैपदसम्बन्धित्रिकस्यानेकत्वात् ? सत्यम् । परस्मैपदात्मनेपदविभागेन त्रिकेषु गृह्यमाणेषु वर्तमानादिभेदेनैव तानि गृह्यन्ते । त्यादीनामुपस्थितौ तासामप्युपस्थितेः ।
१५
वस्तुतस्तु यथासंख्यमन्तरेणापि क्रमशस्त्यादीनां त्रिकाणां प्रथममध्यमोत्तमसंज्ञाप्रवृत्तौ अभिमतसिद्धिर्भवत्येव यथासंख्यमिति यदुक्तं तत् प्रकारान्तरमेव । वीप्सा चात्रेत्यादि । ननु यदि क्रियागुणद्रव्यैर्युगपद् व्याप्तुमिच्छा वीप्सा, अत्र प्रथमादिगुणानां त्यादीनां सार्वत्रिकेषु न प्रत्येकं व्यापकता, नापि समुदायेन । तथाहि यथा 'ति-तस्अन्ति' इत्यत्र प्रथमगुणेन व्याप्यते न तथा 'सि-थस्-थ' इत्यत्र अतो नास्ति प्रत्येकं व्यापकता । तथा ‘ति-तस्- अन्ति' इत्यत्र यथा प्रथमगुणेन व्याप्यते न तथा मध्यमोत्तमाभ्यामिति, नास्ति समुदायेन व्यापकता, तत्कथं व्यापकताभावाद् वीप्सा संगच्छते इति ? सत्यम् । साहित्ये द्वन्द्वस्य विधानात् साहित्यधर्माक्रान्ततया सर्वेषां प्रथममध्यमोत्तमानामुपस्थितौ त्यादीनां सार्वत्रिकेषु प्रथमादिगुणानामेकतमस्य क्रमेण व्यापकत्वेऽपि साहित्यविशिष्टत्वेन प्रथमादीनां व्यक्तिरस्त्येवेति वीप्सा न विहन्यते [सर्वेषां सार्वत्रिकेषु व्यापकत्वमुपचर्यते । । यथा 'गृहे गृहे अश्वाः' इत्यादिषु अश्वाक्रान्ततया यावद्व्यक्तीनां व्यापकत्वेनोपस्थितौ तदन्यतमव्यापकत्वेनापि सर्वासामश्वाक्रान्तव्यक्तीनां व्यापकत्वं प्रतीयत इति ।
एते हीत्यादि । ननु ये हि पुरुषत्वेन प्रतीतास्तद्विशिष्टार्थवाचकाः शब्दा अपि पुंलिङ्गाः इति कथं निश्चितम् यावता सामान्यवाचकस्य व्यक्तिशब्दस्य पुंस्त्वविशिष्टव्यक्तिवाचकत्वेऽपि स्त्रीलिङ्गत्वमिति ? सत्यम् । हि यस्मात् प्रथमादयोऽर्थाः पुरुषत्वेन पुरुषशब्दवाच्यत्वेन प्रतीताः, ये च पुरुषास्ते च पुंस्त्वधर्मविशिष्टा एव । अतस्तस्य पुरुषस्य पुंस्त्वधर्मविशिष्टत्वेन तदर्थवाचका एते प्रथमादयः शब्दाः पुंलिङ्गा एवेत्यर्थः । अथ पुरुषशब्दवाच्या इमे इति कुतो निश्चितमित्याह तथेत्यादि हेमकरस्याभिप्रायः । अर्थकृतमिह यथासंख्यमित्यादि तथाहीति । ननु त्रीणि त्रीणीत्येकमेवेदं पदं प्रथममध्यमोत्तमाश्च त्रयः इति वक्तुं युज्यते तत्कथं परस्मैपदानि नव नव वचनानीत्युच्यते सूत्रे तेषामनुपात्तत्वात् त्रीणि त्रीणीत्यस्यार्थं कथयता शब्दसाम्यं निराकृतमिति हेमकरः । महान्तस्तु अर्थकृतमिति अर्थशब्दोऽत्र समुदायपरः ।
--