________________
कातन्त्रव्याकरणम्
१०. वस्तुतस्तु शास्त्रीयसंज्ञाया लौकिकहेतुर्न प्रयोजकः (क० च०) ।।४१७ ।
४१८. नव पराण्यात्मने [३।१।२] [सूत्रार्थ]
कालबोधक 'वर्तमाना' आदि संज्ञाओं के १८-१८ प्रत्ययों में से परवर्ती ९-९ प्रत्ययों की आत्मनेपद संज्ञा होती है ।। ४१८।
[दु० वृ०] __ अथ पराणि नव नव वचनानि आत्मनेपदसंज्ञकानि भवन्ति । पदानीति गम्यते । ते, आते, अन्ते, से, आथे, ध्वे, ए,वहे, महे । एवं सर्वत्र । आत्मनेपदप्रदेशाः- "आत्मनेपदानि भावकर्मणोः" (३। २।४०) इत्येवमादयः ।। ४१८।
[दु० टी०]
नव० । अत्राप्यानन्तर्यार्थोऽप्यथशब्द इत्यवीप्सोऽपि नवशब्दो वीपमां गमयति । तेनैकैकस्यां विभक्तौ नव पराण्यात्मनेपदानीत्यर्थः । सर्वेषामात्मने “सिजाशिषोश्चात्मने" (३।५।१०) इति ज्ञापकाच्च । कुतः क्रियातिपत्तेरेव 'नव पराण्यात्मनेपदानि' इति चोद्यम् । पदानीति गम्यते इति । ननु च कृतायां संज्ञायां सत्याम् उत्तरपदकालगृहीतसम्बन्धेन संजैकदेशो गम्यते । इह तु संज्ञाकाले एव पदशब्दो न श्रूयते इति कुतोऽवगतिः ? सत्यम् । लोकप्रसिद्धेयं संज्ञा | नवसंख्यापरिच्छेदेन मन्दधियं प्रत्येकदेशोऽन्वाख्यायते । यथा भीमो भीमसेनः, सत्यभामा भामेति । किञ्च विधौ पदशब्दश्रवणादिति हृदि कृत्वाह - आत्मनेपदानीत्यादि । यथाकथञ्चिद् व्युत्पत्तिवादी पुनराह - आत्मपरयोळकरणाख्यायां पदे नास्ति चतुर्था लोप इति पदं गम्यते परस्मैपदसाहचर्यादिति वा ।। ४१८ ।
[वि० प०]
नव० । इहाप्यथशब्दोऽनन्तराणां त्यादीनां द्योतकोऽनुवर्तते इति इहापि पूर्ववद् व्याख्यानम् । त्यादयश्च स्यामहिपर्यन्ता इति संज्ञिनां बहुत्वादशेषसंज्ञिपरिग्रहार्थमगृहीतवीप्सोऽपि नवशब्दोऽर्थाद् वीप्सां गमयति । तेन सर्वासां विभक्तीनां पराणि नव नव वचनानि आत्मनेपदानीत्यर्थः । न पुन: क्रियातिपत्तेरेव सर्वपरत्वान्नववचनानामियं संज्ञेति । किञ्च सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः, “सिजाशिषोश्चात्मने" (३।५।१०) इति ज्ञापकादप्येतत् सिध्यति, कथमन्यथा सार्वधातुकादेरात्मनेपदव्यवहार इति । 'आत्मने' इति प्रथमाबहुवचनस्य पदशब्देन सार्धम् आदिलोप इत्यादिना लोपे सति पदम् , आत्मनेपदानीत्यर्थः । कथम् एतद