________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः गम्यते सूत्रे पदशब्दस्यानुपात्तत्वात् । उपात्त एव केवलं विलुप्त इत्यपि दुरुपपादनीयं नियमहेतोरभावादित्याह -- पदानीति गम्यते इति । लोके प्रसिद्धेयं संज्ञा मन्दधियं प्रति सुखार्थमन्वाख्यायते इति । यथा भीमो भीमसेन : इत्यादावेकदेशेनापि समुदायो गम्यते तथापीत्यदोषः । विधौ वा पदशब्दस्य श्रवणादवगम्यते । एतदेव संज्ञायाश्च प्रयोजनं दर्शयन्नाह – “आत्मनेपदानि भावकर्मणोः" (३।२।४०) इत्येवमादय इति ।। ४१८।
[क० च०]
नव० । संज्ञिनां बहुत्वादित्यादि । अथ परशब्देन त्यादिसामान्योपस्थित्यपरशब्देन परस्मैपदापेक्षयैव परभूतानि सर्वाण्येव वचनानि उपस्थाप्यन्ते न तु एकनववचनमात्रं संकोचे प्रमाणाभावाद् अत इह संज्ञिनां बहुत्वाद् अगृहीतवीप्सोऽपि नवशब्दो वीप्सां गमयति इत्यर्थः । नन परस्मैपदस्याप्यसंकोचात सर्वासां विभक्तीनां परस्मैपदसंज्ञा स्यात् ततश्च सकलपरस्मैपदापेक्षया क्रियातिपत्तेरेव परनववचनानां परत्वमित्याहकिञ्चेति । यद् वा त्यादीनां सर्वत्र प्रकृतिभूतत्वेन (संज्ञिभूतत्वेन) मुख्यत्वात् तेषामेव पराणि नव वचनानीति कथं न गृह्यन्ते इत्याह - किञ्चेति । यथा भीमो भीमसेन इति ।
ननु कथमयं दृष्टान्तः, दृष्टान्तदाष्टन्तियोरतुल्यत्वात् । न ह्यत्र दृष्टान्तेऽप्येकदेशलोपो विवक्षितः ? सत्यम्, अत्रापि बहुलत्वादेकदेशलोप इति कुलचन्द्रः । तन्न, अदृष्टकल्पने मानाभावात् । वस्तुतस्तु समुदायापेक्षया नायं दृष्टान्तः, किन्त्वेकदेशोच्चारणेन समुदायस्याप्युपस्थितिरिति अंशमात्रे दृष्टान्तो दर्शितः इति न दोषः । ननु तत्र नामकरणकाल एव भीमसेन इति संज्ञा विहिता, तदुत्तरकाले एकदेशमादाय व्यवहार उपपद्यते इति युक्तम् । अब तु संज्ञाकाल एव पदशब्दो नास्ति कथमेकदेशेन समुदायो गम्यते इत्याह - विधौ वेति । वयं तु न हि भीम इति भीमसेनशब्दस्यैकदेशः किन्तु यथा भीमसेन इति संज्ञा तथा भीम इत्यपि तस्य संज्ञान्तरम् । तथा च 'मेदिनी - 'भीमो भयानके रुद्रे पाण्डवे च नृपान्तरे' इति । एतदाशङ्क्याह - विधौ वेत्यादीति ब्रूमः ||४१८ ।
[समीक्षा]
पाणिनीय व्याकरण में तिप् आदि १८ प्रत्यय पढ़े गए हैं, जिन्हें 'तिङ्' प्रत्याहार नाम दिया गया है, उन्हीं १८ तिङ् प्रत्ययों में से 'त-आताम्-झ-थास्
१.
अमरकोश: - दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् - (१।७।२०)।