________________
परिशिष्टम् - १ (अ)
[वि० प० ]
अनि० । इन्निति निवृत्तम् । अनियमो व्यतीहारः परिवर्तः इत्येकोऽर्थः स च धातुप्रस्तावात् क्रियाया एव तस्मिंश्च वर्तमानो धातू रुचादिरित्यर्थः ।। ४९२ । ६६ । [क० च०]
अनियमे । सत्यमित्यादि । नन्वेवं सति कथम् ' धर्मोऽस्ति सत्यं तव राक्षसायम् अन्यो व्यतिस्ते तु ममापि धर्मः' इति भट्टी । 'व्यतिरक्ष श्रीपद्यानि' इति पुरुषोत्तम इति । अन्ये तु चिकीर्षितायाः क्रियायाः अन्यस्य करणाभावः ? सत्यम् । सजातीयक्रियाद्वयस्य परस्परक्रियाकर्तृसम्बन्धित्वेनोत्पत्तिकत्वमेवेति व्यतिहारो विवक्षित इति । सम्बन्धश्च तदनभिलङ्घितत्वाद् वा क्वचित् पक्षे उत्पद्यमानत्वं क्वचित् क्रियासमानकालोत्पत्तिकत्वम् इति बोध्यम् । तेन देवदत्तेन चिकीर्षितां क्रियां यज्ञदत्तः करोतीत्युक्तम्, तदुपलक्षणमात्रम् । ननु 'सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम्' इति कथम् ? सत्यम्, विनिमयशब्देनैव क्रियाविनिमयस्योक्तत्वान्नात्मनेपदमिति ।
एवम् ‘अन्योऽन्यं स्म व्यतियुतः शब्दैः शब्दांस्तु भीषणम्' इत्यादयस्तु रुचादयः सिद्धाः। ननु परमतेन गतिहिंसार्थेभ्यः पृथगेव निषेधस्य सत्त्वात् 'व्यतिगम्यते' इत्यादौ देश्यमेव नास्ति । अस्मन्मते तु गत्यादिव्यतिरिक्तस्य धातो रूचादिपाठविधानाद् गत्यादस्तत्पाठनिषेधाद् वा कर्मण्यात्मनेपदप्रसङ्ग एव नास्ति, किं न्यायानुसारेण । सोऽपि न्यायः परमते एव घटते । “नेर्विश्” (३।२।४२-१) इत्यादिसूत्रेणात्मनेपदविधानात् । अस्मन्मते विशेषवाक्ये रुचादिपाठ एव बोध्यते, आत्मनेपदं तु मूलसूत्रेणैव । अतः कर्तरीति साक्षादेवोक्तम् | ततश्च गत्यादिव्यतिरिक्तेभ्यो व्यतीहारे कर्तर्यात्मनेपदम् इति सूत्रार्थे किमुपपन्नम् । न चागतीत्यादिप्रसज्यप्रतिषेधपक्षे ग्रन्थो योज्य इति वाच्यम्, आत्मनेपदनिषेधाभावे युक्त्यभावात् । नहि इदं सूत्रं विषयप्रदर्शनमात्रम् । अत्र ब्रूमः - परमते “न गतिहिंसार्थेम्यः” (अ० १ । ३ । १५) इति पृथक् सूत्रविधानात् कर्मण्यात्मनेपदं निषिध्यते । स्वमते तु व्यतिगम्यते इत्यपि स्यात्, तच्च कथं पाणिनिविरोधाद् इत्याशयेन पञ्जिकायां चोदितम् | सिद्धान्तस्तु परमतेऽनन्तत्वाद् अकर्मकर्तर्यात्मनेपदस्य निषेधाद् भावकर्मणोरात्मनेपदमिष्टम् इत्यभिप्रायः || ४९२ |६६ ।
॥ इति रुचादिगणे सुषेणविद्याभूषणकृतः कलापचन्द्रः समाप्तः ॥