________________
परिशिष्टम् - १ [आ] विद्यासागरकृतटिप्पणी ४२५. क्रियाभावो धातुः [ ३।१।९]
[दु० टी० - व्याख्या]
ननु भवतेरिहार्थो नास्ति, तत् कथम् इन् इत्यत आह- हेत्विति । इनन्तो न केवल इत्यर्थः । एतेन हेतुविवक्षायामिनं कृत्वा पश्चादर्थान्तरे वृत्तिरिति केचित् । वस्तुतस्तु इन्विषये भूधातोर्ज्ञाने वृत्तिरिति घटत एवेत्याशयः । क्रियते इति । नन्वेवं घटादीनामपि साध्यत्वात् क्रियात्वं स्यात् । 'अग्रे श्वेतते' इत्यादौ पूर्वपक्षासङ्गतिश्च साध्यतायाः सत्त्वात् । न च साक्षात्कर्तृसाध्यत्वं विवक्षितम् । तच्च न घटादीनामिति वाच्यम्, घटवत् पाकादेरपि साक्षात् क्रियासाध्यताविरहात् । किञ्चैवं क्रियात्वेनावभासते इत्यनेन सिद्धान्तेऽपि सत्तादौ लक्षणाव्याप्तिर्वज्रलेपायितैव स्यात् । नहि सर्षपत्वेनाध्यवसीयमानं हेमरजः सर्षपकार्यं करोति । यदि च साध्यतया प्रतीयमानत्वं लक्षणं तदा व्यवच्छेद्याभावः, अत एव न्यासोक्तं निरवयवविशेषणमप्यपास्तम् । साध्यत्वे सति निरवयवत्वस्य गन्धस्पर्शादिसाधारणत्वात् प्रत्ययवाच्यसाध्यताकोऽर्थः क्रियेति तात्पर्यात्, उत्पादना हि त्याद्यर्थ इति रत्नकोषः । अत एवाख्यातस्य साध्यताविधायकत्वमित्यपि सिद्धान्तो घटते । भट्टमते तु भावनैवाख्यातार्थ इति साध्यताशब्दस्यापि भावनापरत्वमेव मन्तव्यम् ।
अथवा येषां मते साध्यतावाचकत्वं नाख्यातस्य तन्मतमाशङ्क्यैव सर्वदर्शनविरुद्धं लक्षणमुक्तम् । सा चेति प्रत्ययवाच्यपूर्वापरीभावकत्वं क्रियात्वमित्यर्थः । तथा ह्याख्यातस्य पूर्वापरीभावोऽप्याख्यातार्थ इति वर्धमानादिभिर्व्याख्यातम् । आख्याताभिधेयकालान्वयबोधयोग्यार्थोपस्थापकत्वं धातुत्वमिति, तत्त्वबोधस्याप्युक्तलक्षण एव तात्पर्यम् । एवं च सत्तादौ पौर्वापर्यसत्त्वात् कथं प्रत्ययेन तदभिधानमित्याशयेनाग्रिमं चोद्यम् इत्यत्र व्यक्तिर्भविष्यति । न च 'श्वेतते' इति सिद्ध्यर्थमग्रिमसिद्धान्तेन श्वेतगुणस्य क्रियात्वे व्यवस्थापिते तदभिधायिनां शुक्लादिपदानामपि धातुसंज्ञा स्यात् । यदुत्तरेण प्रत्ययेन यस्यार्थस्य बाध्यते प्रतिपाद्यते श्रुतत्वात् तस्यैव धातुसंज्ञेति व्याख्यानात् |
वस्तुतो यथा भावयतिग्रहणबलात् 'पच्यते' इत्यादीनां व्यावृत्तिर्ग्रन्थकृता वक्ष्यते । यथा वा नैयासिकैर्बृहत्संज्ञाकरणेन हि कुपादीनां निरासः क्रियते तथैव शुक्लादीनामपि व्यावृत्तिः सिद्धेत्यग्रे व्याख्यास्यामः । न च शुक्लादिपदस्य क्रियावाचकत्वाद् घटस्य शुक्लं रूपमित्यत्र कर्तरि तृतीया स्यादिति वाच्यम् । यदि प्रयोगो न दृश्यते तदा शब्दविशेषण एव कारकत्वविवक्षा इति स्वीकरणीयत्वात् । अस्तु वा उक्तलक्षणाव्ययकृदन्तातिरिक्तनामभिन्नत्वेनाभिधीयमानत्वे सतीति विशेषणमव्यययोगे 'तमृते