________________
४६०
कातन्त्रव्याकरणम्
[क० च०]
मिथ्या० । मिथ्याशब्दोऽयमव्ययः । अस्यार्थमाह - स्वरादिदुष्टमिति | आदिशब्देनैवंरूपस्यापि परिग्रहः । पुनः पुनरिति । अत्रात्मनेपदेनैवाभ्यासस्योक्तत्वान्न द्विवचनम् । द्विर्वचनप्रकरणे व्यवस्थितविभाषाश्रयणादित्यपरे ।।४९२।६५।।
४९२/६६. अनियमे चागतिहिंसाशब्दार्थहसः [दु० वृ०] . .इन्निति निवृत्तम् । अनियमो व्यतीहारः परिवर्त इत्येकोऽर्थः, स च धातुप्रस्तावात् क्रियाया एव, तस्मिंश्च वर्तमानो धातू रुचादिर्भवति । गतिश्च हिंसा च शब्दश्च, तेऽर्था येषां ते तथोक्ताः । गत्यर्थाः शब्दार्था हिंसार्थाश्च हस् च सत्यप्यनियमे रुचादयो भवन्तीत्यर्थः ।।४९२।६६।
॥इति रुचादिगणे दुर्गसिंहकृता वृत्तिः समाप्ता॥
[दु० टी०]
अनियमे । इन्निति निवृत्तम् । गतिश्च हिंसा च शब्दश्च तेऽर्था येषामिति विग्रहः । गतिहिंसाशब्दार्थहस चेति द्वन्द्वे पश्चान्नसमासः गतिहिंसाशब्दार्थहसवर्जिता धातव इत्यर्थः । अनियमो व्यतीहारः परिवर्तः इत्येकोऽर्थः, स च धातुप्रस्तावात् क्रियायाः । ननु क्रिया अनवस्थायिन्यः कृतस्य करणायोगाच्च कथं क्रियाव्यतीहारद्योत्ये इति ? सत्यम्, यदा बुद्ध्या निरूपितम् । इयं कर्तव्येति देवदत्तेन सा देवदत्तस्य तां यज्ञदत्तो यदा करोति, यज्ञदत्तेन कर्तव्यतया समीहितां देवदत्तः करोति तदा न विरुध्यते । व्यतिलुनन्ते, व्यतिभवन्ते । अगत्यादय इति किम् ? व्यतिगच्छन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति, व्यतिघ्नन्ति । कथं व्यतिहरते भारम्, व्यतिवहते भारम् । नैतौ गत्यर्थी किन्तर्हि देशान्तरप्रापणार्थो ? एवं 'व्यतिप्रसंहरन्ते राजानम्' इति न हरतिहिँसार्थः, किन्तर्हि योधने इतरेतरान्योऽन्यपरस्परैः क्रियाविनिमयस्योक्तत्वान्नैवात्मनेपदम् । इतरेतरस्य व्यतिलुनन्ति, अन्योऽन्यस्य व्यतिलुनन्ति, देवदत्तस्य धान्यं व्यतिलुनन्ति इति देवदत्तेन यद् गृहीतं धान्यं पुरस्तात् तल्लवणेन गृह्णातीति साधनव्यतीहारोऽयम् । व्यतिहारश्चानेककर्तृविषय इति द्विवचने न्यग्भूतावयवसमुदाये । एकवचनमपि - व्यतिलुनीते सेनेति । 'अनन्तरस्य विधिः प्रतिषेधो वा' (कात० प० १८) इति, गम्यते ग्रामः 'व्यतिहन्यन्ते दस्यवः' इति भावकर्मणोरात्मनेपदम् ।।४९२।६६।
॥ इति रुचादिगणे दुर्गसिंहकृता टीका समाप्ता॥