________________
४४८
कातन्त्रव्याकरणम्
[क० च०]
व्यक्तम् । “व्यक्तवाचां समुच्चारणे" (अ० १।३।४८) इति पाणिनिसूत्रे व्यक्तवाचो मनुष्या एव रूढाः । काशिका-एतच्च कुक्कुटादिव्यवच्छेदार्थमुपलक्षणम् । तेन ‘देवा विवदन्ते' इत्यपि स्यात् । तस्माद् वर्णगतमेवाव्यक्तत्वम् अभिमतम्, अन्यथा व्यवच्छेद्याभावात् कुक्कुटादिवाक्यस्यापि व्यक्तत्वाद् इत्याह – व्यक्ताक्षरमिति ||४९२।४५ ।
४९२/४६. तयोर्वा [दु० वृ०]
विमतिव्यक्तसहोक्त्योरेकत्र विवक्षायां वदती रुचादिर्भवति वा । विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति वा | परस्परं विप्रतिषेधेन व्यक्ताक्षरं युगपद् वदन्तीत्यर्थः । विमतावित्येव - संप्रवदन्ते ग्राम्याः । व्यक्तमित्येव - विप्रवदन्ति शकुनयः । सहोक्तावित्येव - एकैकशो विप्रवदन्ते मौहूर्ताः । विमताविति नित्यमेव ||४९२।४६।
[दु० टी०]
तयोर्वेति । विमतौ व्यक्तं सहोक्तौ चैकत्र विवक्षितायामित्यर्थः । विप्रवदन्ते मौहूर्ताः विप्रवदन्ति वा युगपत् परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः । विमतावित्येव – सम्प्रवदन्ते ग्राम्याः । व्यक्तमित्येव – विप्रवदन्ति शकुनयः । सहोक्तावित्येव-एकैकशो विप्रवदन्ति मौहूर्ताः ।।४९२।४६।
[वि० प०]
तयो० । विमतावित्येव - सम्प्रवदन्ते ग्राम्याः । व्यक्तमिति किम् ? सम्प्रवदन्ति शकुनयः । सहोक्तावित्येव – एकैकशो विप्रवदन्ते मौहूर्ताः । विमताविति नित्यमेव भवति ||४९२।४६।
[क० च०]
तयो० । तच्छब्दस्य प्रसिद्ध्यर्थग्राहकत्वाद् विमतिरिह प्रलापमात्रम्, न तु विचित्रभाषणमात्रमिति कुलचन्द्रः | प्रलापमात्रं स च प्रलापोऽत्र विचित्रभाषणं सामान्यभाषणं च, तदुभयोरेव ग्रहणम् । अतो न पाणिनिपरिग्रहविरोधः । “व्यक्तवाचां समुच्चारणे" (अ० १।३।४८) इत्यनुवृत्तौ विभाषा | 'विप्रलापो विरोधोक्तिः' इत्यमरः । अत एव पञ्जिकाकारेण विप्रतिषेधेनेत्यर्थकथनं कृतं न तु विचित्रमित्युक्तम्, अत एव 'विप्रवदन्ते शकुनयः' इत्यत्र विरुद्धभाषणप्रत्युदाहृतत्वाद् विमतावित्यनेनात्मनेपदम् । 'एकैकशो विप्रवदन्ते मौहूर्ताः' इति प्रत्युदाहरणे तु विचित्रभाषणमवगन्तव्यम् । अतो विमतावित्यनेन नित्यमात्मनेपदमित्युक्तम् । यद् वा विमतावित्यत्रापि व्यक्तमिति सम्बन्धनीयमिति व्याख्यातमेव तत्सूत्रे || ४९२।४६।