SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् -१ (अ) ४४९ ४९२/४७. अवाद् गिरः [दु० वृ०] अवात् परो गिरती रुचादिर्भवति । अवगिरते । तिब्लोपं कृत्वा तौदादिकस्य 'गृ निगरणे' (५।२२) इत्यस्य निर्देशः । तेनेह न भवति - अवगृणाति ।। ४९२।४७) [दु० टी०] अवाद् । अवगिरते । गिरेति निर्देशादिह न स्यात् । अवगृणाति । 'ग शब्दे' (८।२२) "प्वादीनाम्" (३।६।८३) ह्रस्वः ।।४९२।४७। ४९२/४८. समः प्रतिज्ञायाम् [दु० वृ०] समः परो गिरती रुचादिर्भवति प्रतिज्ञायाम् । शतं संगिरते । अभ्युपगच्छतीत्यर्थः । प्रतिज्ञायामिति किम् ? संगिरति । वक्ति अभ्यवहरति वेत्यर्थः ।।४९२।४८। [दु० टी०] समः प्रतिज्ञायाम् इति । शतं संगिरते, अभ्युपगच्छतीत्यर्थः । प्रतिज्ञायामिति किम् ? संगिरति, वक्ति अभ्यवहरति वेत्यर्थः ।। ४९२।४८। [वि० प०] समः प्रतिज्ञायाम् । शतं संगिरते, अभ्युपगच्छतीत्यर्थः । प्रतिज्ञायामिति किम् ? संगिरति, वक्ति अभ्यवहरति वेत्यर्थः ।।४९२।४८। ४९२/४९. किरादिश्रन्थिग्रन्थिसनन्ताः कर्मकर्तृस्थाः [दु० वृ०] __एते धातवो रुचादयो भवन्ति कर्मकर्तृस्थाः । आदिशब्द : प्रकारवचनः । किरतिप्रकाराः किरादयः शिष्टप्रयोगानुगम्याः स्वभावादन्तर्भूतकारितार्थाः कर्मकर्तृस्थत्वात् । कर्मवद्भावः प्राप्तस्तदपवादः कर्तर्यात्मनेपदं विधीयते । अवकारयति हस्तिनं हस्तिपकः, अवकिरते हस्ती स्वयमेव । ग्रथनाति मालां नालाकारः । ग्रनीते माला स्वयमेव । ग्रथ्नाति मालां मालिकः, ग्रनीते माला स्वयमेव । चिकीर्षति कटं देवदत्तः, चिकीर्षते कटः स्वयमेव || ४९२ |४९। [दु० टी०] किरादि इत्यादि । किरतिप्रकाराः किरादयः शिष्टप्रयोगानुगम्याः अन्तर्भूतकारितार्थाः । अवकारयति हस्तिनं हस्तिपकः । अवकिरते हस्ती स्वयमेव । ग्रथनाति मालाम्, ग्रनीते माला स्वयमेव, एवं चिकीर्षते कटः स्वयमेव ।।४९२१४९।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy