________________
परिशिष्टम् - १ (अ)
४७ महान्तः । तन्न, न हि लङ्का अनुपदिष्टेति, किन्तु इवशब्देन तत्सादृश्यस्योक्तत्वादिति ब्रूमः ।।४९२।४३।
४९२/४४. विमतौ [दु० वृ०]
विमतावर्थे वदती रुचादिर्भवति । विविधा नाना मतिर्विमतिः गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः ॥४९२।४४।
[दु० टी०]
विमताविति । विविधा नाना मतिरिति विशेषणं वदत्यर्थस्य । गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः ।।४९२।४४।
[वि० प०]
विमतौ, विविधा नाना मतिर्विमतिः। गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः ।।४९२।४४।
[क० च०]
विमतौ । कथं 'सत्यं विप्रवदन्ति ये मधुलिहः कान्तं वसन्तोत्सवे' इति ? सत्यम्, सहोक्तावित्यतः सिंहावलोकनन्यायेन व्यक्तावितीहानुवर्तते । तेन मधुलिहस्त्वव्यक्तमेव वदन्ति । विशेषस्तु "तयोर्वा" (३।२।४२-४६) इत्यत्र व्याख्यास्यामः ।।४९२।४४ ।
४९२/४५. व्यक्तं सहोक्तौ [दु० वृ०]
व्यक्ताक्षरं यथा भवति तथा सहोक्तौ सहोच्चारणेऽर्थे वदती रुचादिर्भवति । संप्रवदन्ते ग्राम्याः | व्यक्ताक्षरं युगपद् वदन्तीत्यर्थः । व्यक्तमिति किम् ? प्रवदन्ति कुक्कुटाः। यत्र अकारादयो वर्णाः स्वरूपेण स्पष्टमुपलभ्यन्ते, स व्यक्तो ध्वनिः । सहोक्ताविति किम् ? वदति ब्राह्मणः ।।४९२।४५।
[दु० टी०]
व्यक्तम् । सहोक्ताविति व्यक्ताक्षरं सहोच्चारणमित्यर्थः । संप्रवदन्ते ग्राम्याः । व्यक्तमिति किम् ? संप्रवदन्ति कुक्कुटाः । सहोक्ताविति किम् ? वदति ब्राह्मणः ।।४९२।४५।
[वि० प०]
व्यक्तम् । व्यक्ताक्षरं यथा भवति तथा सहोक्तौ सहोच्चारणे इत्यर्थः । संप्रवदन्ते ग्राम्याः । व्यक्ताक्षरं युगपद् वदन्तीत्यर्थः । व्यक्तमिति किम् ? सम्प्रवदन्ति कुक्कुटाः । यत्र वर्णा : स्वेन रूपेण स्फुटमुपलभ्यन्ते स व्यक्तो ध्वनिः। सहोक्ताविति किम् ? किं वदति ब्राह्मणः ।। ४९२।४५।