________________
४४४
कातन्त्रव्याकरणम्
निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि | स्वभावादपपूर्वो जानातिरपह्नवे वर्तते।।४९२।३९।
[दु० टी०]
निह्नवे ज्ञाः । शतमपजानीते । निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि । अपपूर्वो जानातिरपह्नवे ।। ४९२ । ३९ ।
[वि० प०]
निह्नवे ज्ञाः । शतमपजानीते, सहस्रमपजानीते । अपहृते इत्यर्थः । “ज्ञश्च" (३।६।८२) इति जादेशः, “उभयेषाम्" (३।४।४४) इत्यादिना आकारस्येकारः । निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि | स्वभावादपपूर्वो जानातिरपह्नवे वर्तते।।४९२।३९।
[क० च०]
निह्नवे० । अनुपसर्ग इति न सम्बध्यते, अपादेव निवार्थस्य वाचकत्वाच्चेद् अपाज्ज्ञा इति कथं न कृतम् ? सत्यम्, स्पष्टार्थम् ।। ४९२।३९ ।
४९२/४०. अकर्मकश्च [दु० वृ०]
अकर्मको ज्ञा रुचादिर्भवति । सर्पिषो जानीते | नात्र सर्पितॆयत्वेन विवक्षितम् अपि तु ज्ञानस्य भेदकत्वेनेत्यकर्मत्वम् । इह न भवति - स्वरेण पुत्रं जानाति, सकर्मकत्वात् ||४९२।४०।।
[दु० टी०]
अकर्मकश्चेति । सर्पिषो जानीते । सर्पिरत्र ज्ञानस्य भेदकत्वेन विवक्षितम् इत्यकर्मता ।।४९२।४०।
[वि० प०]
अकर्मकश्च । सर्पिषो जानीते । नात्र सर्पिज्ञेयत्वेन विवक्षितम् अपि तु ज्ञानस्य भेदेन इत्यकर्मकत्वम् । इह न भवति-स्वरेण पुत्रं जानाति, सकर्मकत्वात् ||४९२।४०।
[क० च०]
अकर्म० । कथं 'वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिराम्, जानीते जयदेव' (गीत० १।४) इत्यत्रात्मनेपदम्, सकर्मकत्वात् । तथा 'जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽपि दृष्टा मया, न जाने स प्रधानो मे शूरहस्ती सदामदः' (दुर्गासप्त० १।१३) इत्येतदर्थम् “अनुपसर्गाज्ज्ञा" (अ० १।३।७६) इति पाणिनिसूत्रम् ? सत्यम्, चकारात् सकर्मकश्च रुचादिः, स चाभिधानादनुपसर्ग एव । जयदेवप्रयोगे तु वयं ब्रूमः- 'वाचः