________________
परिशिष्टम् -१ (अ)
४४५ पल्लवयत्युमापतिः, सन्दर्भशुद्धिं गिरां जानीते जयदेवः' (गीत० १।४) उमापतिर्वाचः वाण्याः सन्दर्भशुद्धिं पल्लवयति, जयदेव एव गिरा जानीते, गी:सम्बन्धिज्ञानवान् जयदेव इत्यर्थः। यथा ‘सर्पिषो जानीते' इति । मूर्खास्तु "निहवे ज्ञाः" (३।२।४२-३९) इत्यस्य विषयमाहुः ।।४९२।४०।
४९२/४१. सम्प्रतिभ्यामस्मृतौ [दु० त०]
सम्प्रतिभ्यां ज्ञा रुचादिर्भवति अस्मतावर्थे । संजानीते, प्रतिजानीते । अभ्युपगच्छतीत्यर्थः । अस्मृताविति किम् ? मातुः संजानाति । स्मरतीत्यर्थः ।। ४९२।४१।
[दु० टी०]
सम्प्रतिभ्यामस्मृताविति । संजानीते, प्रतिजानीते | अभ्युपगच्छतीत्यर्थः । अस्मृताविति किम् ? मातुः संजानाति, उत्कण्ठते इत्यर्थः ।। ४९२।४१।
[वि० प०]
सम्प्रतिभ्यामस्मृतौ । संजानीते, प्रतिजानीते । अभ्युपगच्छतीत्यर्थः । अस्मृताविति किम् ? मातुः संजानाति । स्मरतीत्यर्थः ।। ४९२।४१।
[क० च०]
सम्प्रति० । ननु मातुः संजानातीति कथं प्रत्युदाहरणं सकर्मकत्वेन द्व्यङ्गविकलत्वात् ? सत्यम्, मातुरित्यत्र सम्बन्ध एव षष्ठी, न तु स्मृत्यर्थकर्मणि । वस्तुतस्तु अस्मृताविति विशेषणाद् अकर्मक इति नानुवर्तते । अत एव अनोरकर्मक इत्यत्र पुनरकर्मग्रहणं करिष्यति ।। ४९२।४१।।
४९२/४२. ज्ञानयत्नोपच्छन्दनेषु वद [दु० वृ०]
एष्वर्थेषु वदती रुचादिभवति । वदते पतञ्जलिर्व्याकरणे । ज्ञानपूर्वकं वदतीत्यर्थः । भाषणमपि ज्ञानपूर्वकमेवेति न पृथगुक्तम् । ज्ञानेनैवोक्तत्वात् । वदते कात्यायनो व्याकरणे | देदीप्यमानस्तत्र पदार्थान् वदतीत्यर्थः । यले- क्षेत्रे वदते । क्षेत्रविषये यत्नमुत्साहमाविष्करोतीत्यर्थः । उपच्छन्दने- कर्मकरानुपवदते । उपच्छन्दनं प्रलोभनम्, तच्चोपसान्त्वनान्न भिद्यते इति । परदारानुपवदते । उपच्छन्दनेनैव सिद्धम् । वदिरित्यधिकारस्तयोर्वेति यावत् ।।४९२।४२ ।
[दु० टी०]
ज्ञानेत्यादि । ज्ञानादिष्वर्थेषु विशेषणेष्विति भावः । वदते पतञ्जलिर्व्याकरणे, ज्ञानपूर्वकं वदतीत्यर्थः । भाषणमपि ज्ञानपूर्वकमेव । वदते व्याकरणे कात्यायनः ।