________________
४४२
कातन्त्रव्याकरणम्
[दु० टी०]
ज्योति० । ज्योतिषां ग्रहनक्षत्रादीनाम् ऊर्ध्वगमनमित्यर्थः । आक्रमते आदित्यः, नभसा गच्छतीत्यर्थः । ज्योतिरिति किम् ? आक्रामति धूमः । उद्गम इति किम् ? अग्निरिन्धनमाक्रामति, प्राप्नोतीत्यर्थः । तथा 'नभः समाक्रामति कृष्णवर्त्मना स्थित्वैकचक्रेण रयेन भास्करः' इति कर्मपदं दृश्यते, व्याप्त्यर्थस्य विवक्षितत्वात् ।।४९२।३५ ।
[वि० प०]
आङो० । ज्योतिषां ग्रहनक्षत्रादीनाम् ऊर्ध्वगमनमित्यर्थः । आक्रमते आदित्यः, उद्गच्छतीत्यर्थः । ज्योतिरिति किम् ? आक्रामति धूमः । उद्गम इति किम् ? अग्निरिन्धनमाक्रामति, व्याप्नोतीत्यर्थः । कथमेतत् 'नभः समाक्रामति कृष्णवर्ल्सना स्थित्वैकचक्रेण रयेन भास्करः' इत्यत्रापि व्याप्त्यर्थस्य विवक्षितत्वात् । तथाहि नभः' इति कर्मपदं दृश्यते ।।४९२।३५।।
४९२/३६. वेः पादाभ्याम् [दु० वृ०]
वेः परः क्रमो रुचादिर्भवति, पादाभ्यां यदि सा क्रिया क्रियते। साधु विक्रमते हंसः । द्विवचनस्यातन्त्रत्वात् पादैरपि यदा क्रियते तदापि भवति । लघु विक्रमते अश्वः । पादाभ्यामिति किम् ? अश्वेन विक्रामति ।।४९२।३६।
[दु० टी०]
वेः पादा० । पादाभ्यां चेत् सा क्रिया क्रियते । साधु विक्रमते । अश्वादीनां गति - विशेषो विक्रमणम् । पादाभ्यामिति द्विवचनमतन्त्रम् । पादाभ्यामिति किम् ? अश्वेन विक्रामति ।। ४९२।३६।
[वि० प०]
वेः पादाभ्याम् । पादाभ्यां यदि सा क्रिया क्रियते । साधु विक्रमते हंसः । द्विवचनस्यातन्त्रत्वाद् यदा पादैरपि सा क्रिया क्रियते तदापि भवति । सुष्ठु विक्रमतेऽश्वः । पादाभ्यामिति किम् ? अश्वेन विक्रामति ।। ४९२ । ३६ ।
४९२/३७. प्रोपाभ्यापारम्भे [दु० वृ०]
प्रोपाभ्यां परः क्रमो रुचादिर्भवत्यारम्भेऽर्थे । प्रक्रमते । भोक्तुमारभते इत्यर्थः । कथम् उपक्रमते । शुश्रूषामङ्गीकरोतीत्यर्थः ? सत्यम्, अङ्गीकरणमप्यारम्भविषयमेवेत्यदोषः । आरम्भ इति किम् ? पूर्वेयुः प्रक्रामति, गच्छतीत्यर्थः । अपरेधुरुपक्रामति, आगच्छतीत्यर्थः ।।४९२।३७)