________________
कातन्त्रव्याकरणम्
सन्नादीनामपि संज्ञा स्यात्, व्यवधानं पुनस्तेषां पादान्तरितत्वात्, अत एव परस्मैपदानामधिकारस्य द्योतकोऽयमिति नोच्यते । यथा 'अथ शब्दानुशासनम्' (म० भा० - प्रारम्भिकवचनम् ) इति । शब्दानामनुशासनमधिक्रियते इति । ननु च सुखप्रतिपत्त्यै कृतप्रतिझो हि भगवान् कथं "त्यादीनि परस्मैपदानि ” इति नोक्तवान् ? सत्यम् | शास्त्रमध्ये मङ्गलार्थोऽपि प्रतिपत्तव्यः सिद्धशब्दवत् । यद्येवम्, येषामात्मनेपदसंज्ञा, तेषां परस्मैपदसंज्ञापि स्यात् । न च संज्ञया संज्ञान्तरस्य बाधा, तथा च सिर्विभक्तिर्घुट् संबुद्धिरिति दृश्यते, 'लोकबच्छास्त्रे व्यवहारः' इति हृदि कृत्वा परिहारमाह - नवेत्यादि । बाधा पुनरुक्तित इति नवग्रहणात् परग्रहणाच्चावसीयते । यथा 'अमी विष्णुमित्राः परे नव देवदत्ताः' इति । नात्र देवदत्तानां विष्णुमित्रत्वं गम्यते तथेहापीत्यर्थः । किञ्च “इन्ञ्यजादेरुभयम्” (३ | २|४५) इति ज्ञापकात् " शेषात् कर्तरि परस्मैपदम्” (.३ । २ । ४७ ) भवदात्मनेपदं सिद्धमिति भावः । अन्यथा परस्मैपदसंज्ञामाश्रित्य उत्पत्स्यमानानां त्यादीनां भवन्ती संज्ञेयम् इतरेतराश्रयदोषाय न कल्पते, शब्दानां नित्यत्वात् । लोके च 'भाविनि भूतवदुपचारः' (का० परि०-१४) । यथा 'अस्य सूत्रस्य शाटकं वय' इति । अर्थस्येत्यादि । अर्थस्य वर्तमानादेर्विभञ्जनाद् विभक्तयः उच्यन्ते लोकोपचारात् किं संज्ञाविधानेनेति भावः ।। ४१७ ।
[वि० प० ]
अथ० । इह यद्यपि प्रश्नानन्तर्यमङ्गलाधिकारेष्वथशब्दो वर्तते, तथाप्यानन्तर्यार्थ एव गृह्यते । तथाहि प्रश्नः पर्यनुयोग उच्यते, स च सामान्यरूपेणावगतस्य विशेष - रूपतया (विशेषरूपेणा) - नवधारितस्य वस्तुनो भवति । यथा अथ किमिदमिति । त्यादीनि तु सर्वथा विदितान्येव, न तस्यावकाशः । अधिकारार्थोऽपि न घटते, तथापि व्यवहितानामपि सन्नादीनां परस्मैपदसंज्ञा स्यात्, ततो " गुप्रतिकिद्भ्यः सन् ” (३।२।२) इत्यादिविशेषविधानं विधाय “धातोर्वा तुमन्तादिच्छति” (३।२।४) इत्यादिना सन्नादयो विधीयमाना आत्मनेपदिभ्यो धातुभ्यो न भवेयुः, अस्त्वेवं विशेषाभावादिति चेत्, तदयुक्तम् 'न निर्दिष्टार्या शास्त्रे प्रक्लृप्तिः' (भोज० परि० १०७) इति । किञ्च यद्यधिकारार्थोऽयमथशब्दः स्यात्, तदैनमपनीय परस्मैपदमित्येवं ब्रूयात् । यथा कृदिति । किमथशब्देनेत्याह- अथानन्तराणीति ।
आनन्तर्यं पुनस्तद्धितमेपक्ष्य वेदितव्यम् । ननु कश्चिदिह संज्ञी न श्रूयते, कथमिदं संज्ञासूत्रम्, न हि सञ्ज्ञिनमन्तरेण सञ्ज्ञोपगम्यते, नाप्यथशब्दोक्तानां त्यादीनां संज्ञित्वमिति वक्तव्यम् । अथशब्दोऽयमव्यय: स्वभावाद् द्योतको न वाचक इति ?