________________
॥श्रीः॥
कातन्त्रव्याकरणम्
[तृतीयो भागः] अथ तृतीये आख्याताध्याये प्रथमः परस्मैपादः
___४१७. अथ परस्मैपदानि [३।१।१] [सूत्रार्थ]
धातुविहित 'ति' से 'स्यामहि' तक १८० प्रत्ययों की परस्मैपद संज्ञा होती है । इनमें से 'वर्तमाना' इत्यादि कालबोधक दश संज्ञाओं के अन्तर्गत प्रत्येक में १८१८ प्रत्यय होते हैं, परवर्ती सूत्र के अनुसार परवर्ती ९-९ प्रत्ययों की आत्मनेपद संज्ञा होने के कारण पूर्ववर्ती ९-९ प्रत्यय परस्मैपदसंज्ञक होंगे ।।४१७।
[दु० वृ०]
अथानन्तराणि त्यादीनि स्यामहिपर्यन्तानि परस्मैपदसंज्ञकानि भवन्ति । "नव पराण्यात्मने" (३।१।२) इत्युक्तिबाधया पूर्वाणि नवैव वचनानि सर्वासां विभक्तीनामिति । अर्थस्य विभञ्जनाद् विभक्तय इति । ति, तस्, अन्ति, सि, थम्, थ, मि, वस्, मस् । एवं सर्वत्र । परस्मैपदप्रदेशाः- “शेषात् कर्तरि परस्मैपदम्" (३।२।४७) इत्येवमादयः ।।४१७।
[दु० टी०]
अथ० । अथशब्दः प्रश्नानन्तर्यमङ्गलाधिकारेषु वर्तमानोऽप्यानन्तर्यार्थ एव गृह्यते, न्याय्यरूपत्वात् । आनन्तर्य पुनस्तद्धितमपेक्ष्य भवतीति मनसि कृत्वाहअथानन्तराणीति । ननु च विध्याद्यर्थस्यासंभवात् परिशिष्टमेतत् संज्ञासूत्रम्, न च संज्ञिपदान्यत्र श्रूयन्ते, संज्ञिनमन्तरेण च संज्ञा नोपपद्यते। न चाथशब्देनानन्तराणि त्यादीनि उच्यन्ते, निपातोऽयं स्वभावाद् द्योतक इति ? सत्यम्, येषामानन्तर्यमनेन द्योतितं तान्येव त्यादीनि संज्ञित्वेनावभासन्ते बहुवचनादभेदनिबन्धनादिति भावः । तर्हि किमथशब्देन, परस्मैपदमिति संज्ञित्वेनाधिक्रियतां यथा कृदिति ? नैवम्, व्यवहितानां