________________
४०४
कातन्त्रव्याकरणम् किमिन्ग्रहणेन तर्हि नाधारमन्तरेण जातिरवसीयते इति जातिनिर्देशार्थमेवेन्ग्रहणम्, ततः किमित्याह - इनीत्यादि । जातेरेकत्वान्नित्यत्वाच्च सर्वदावस्थानमिति नास्ति समानलोपता, न हीह जातिव्यतिरिक्तः समानोऽस्ति, येन तल्लोपे सन्वभावपतिषेधः स्यात् । अथ जातिव्यक्त्योरनन्यत्वमिति साङ्ख्यसिद्धान्तस्येहाश्रयणाद् इनीनो लोपस्तत्रास्तीति । लोप इति तु वचनं व्यक्तेस्तिरोभावनिबन्धनम्, न तु सर्वथा तत्र लोपोऽस्तीति । तथा चाहुः साङ्ख्याः- नासदुत्पद्यते न च सद् विनश्यति उत्पत्तिविनाशयोराविर्भावतिरोभावस्वरूपत्वादिति | चण्पर इत्यादि । रमेरिनि मानुबन्धत्वाद् ह्रस्वः । एतेनोत्तरार्थं क्रियमाणं चण्परग्रहणम् इहापि सुखार्थ भवतीति दर्शितम् ।। ५३२।
[बि० टी०]
अलोपे० । ननु परिभाषावृत्तौ प्राग् द्विवचनं साध्यते । तथाहि योऽनादिष्टादिति, लघुनीतिग्रहणं ज्ञापकम् । एतदुक्तम् - यदीयं परिभाषा नास्ति तदा लघुनीतिग्रहणं किमर्थम्, स्थानिवद्भावादेव सर्वत्र गुरूपधत्वात् तस्माल्लघुनीतिग्रहणं ज्ञापकमस्याः । तन्न, स्वरविधित्वादेवादौ द्विर्वचनं स्यात् स्वःते तु प्राग् ह्रस्व इति विरोधः ? सत्यम्, परपक्षमवलम्ब्योक्तम् । परो हि ‘स्वरविधिः स्वरः' इत्यादौ श्रुतव्याख्यानमाश्रीयते इति । समानसंज्ञकस्यालोप इति वृत्तिः। ननु अचीकरदित्यादौ इनो लोपे समानलोपत्वात् सन्वद्भावः कथं स्यात् चेत्, "इन्यसमानलोपोपधायाः" (३।५/४४) इत्यत्र इन्ग्रहणम् इन्सामान्यार्थम् इति वक्ष्यति । तत इनो लोपे समानलोपत्वं नास्ति । ननु तथापि इन् सामान्यार्थत्वात् ज्ञापकं चेनि इनो लोपे भविष्यति, चणादाविनो लोपे समानलोपत्वान्न सन्वद्भावः । तथा च दुर्गः- इनीनो लोपेऽपि स्यात् ? सत्यम् ? अलोप इति भावसप्तमीयं भावसप्तम्यां च प्राक् स्थितौ सिद्धिः । तथा च "यस्य च भावेन भावलक्षणम्" (अ० २।३।३७) इति पाणिनिः । यस्य च भावेन क्रियया क्रियान्तरं लक्ष्यते, ततः सप्तमी, तच्च लक्षणं पूर्ववर्तित्वे सम्भवति ।
अत्र इनो लोपः पश्चात्, प्राग् लोपे तु स्थानिवद्भावात् “इन्यसमान०" (३।५।४४) इत्यादिना ह्रस्वस्यानर्थक्यप्रसङ्गः समानलोपत्वात् । एवं च लघुनीत्यपि भावसप्तमी दृष्टकल्पनावशात् । एतेन इनि चणि योऽभ्यासः .स कथम्भूतः लघुधात्वक्षरपरः इति लघुनि धात्वक्षरे परस्मिन् योऽभ्यासः इत्यर्थः । अभ्याससञ्ज्ञाप्राप्तौ लघुधात्वक्षरं परे विद्यते चेदिति ।। ५३२।
[समीक्षा]
'अचीकरत्, अपीपचत्, अपीपवत्, अलीलवत्, असिस्रवत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यासघटित अकार-उकार को इकारादेश की अपेक्षा होती है | इकागदेश