________________
तृतोये आख्याताध्याये तृतीयो द्विर्वचनपादः
चण् चासौ परश्चेति विग्रहः, तदा चणीति विदध्यात् । तर्हि इनीति जातिनिर्देशादिति नोपपद्यते, आधारग्रहणे हि जातिरवसीयते । अथ गोबलीवर्द्दन्यायेन इन्जातेर्निमित्तत्वेनाश्रयणम्, प्रतिपत्तिरियं गरीयसीति इन्ग्रहणम् । इन्ग्रहणे तु सति परग्रहणं विशेषणपरम्परागौरवनिरासार्थम् । न विद्यते समानलोपो यस्मिन्निति सामानाधिकरण्येऽ प्युच्यमाने प्रतिपत्तिगौरवं स्यात् । चण्, परग्रहणम् उत्तरार्थं क्रियमाणमिहापि सुखप्रतिपत्त्यर्थं भवतीत्याह - चण्परेत्यादि । रमेरिन्, मानुबन्धत्वाद् ह्रस्वः ।। ५३२ । [वि० प० ]
४०३
46
अलोपे० । अपीपचदिति । पचेर्हेताविन्, चण्, “इन्यसमानलोपोपधाया हस्वश्चणि” (३।५।४४ ) इति ह्रस्वः । कृते द्विर्वचने सन्वद्भावाद् इत्त्वम्, " दीर्घो लघोः” (३।३।३६) इति दीर्घः । " उवर्णस्य जान्तस्थापवर्गपरस्यावर्णे” ( ३।३।२७) इति सनि विहितं कार्यम्, “श्रुस्रुद्रुमुप्लुच्युङां वा वक्तव्यम्" इत्यनेन च सनि विहितमिति दर्शयन्नाह – अलीलवदित्यादि पूर्ववत् । अचकथदिति । 'कथ वाक्यप्रबन्धे' (९।१७४) अदन्तः, चुरादित्वादिन्, अस्य च लोपे स्थानिवद्भावादुपधाया दीर्घो न भवति । इहाकारलोपे दीर्घविधौ “न पदान्त०' (अ० १|१|५८ ) इत्यादिना स्थानिवद्भावप्रतिषेधो नाभिधीयते । वृद्धौ सन्ध्यक्षरलोप इति तत्र नामिग्रहणं बहुवचनं वा लिङ्गार्थमिति वक्ष्यति । तेन लिङ्गस्यापि वृद्धिः । सन्ध्यक्षराणां न समानसंज्ञेति सन्वद्भावो भवति । अततक्षदिति संयोगपरत्वात् तकारस्याकारो गुरुः । कथमित्यादि । अत्राप्याकारस्य दीर्घत्वाद् गुरुत्वम् इति मन्यते नैवम् । यथा अचीकरदित्यादौ ककारादिव्यञ्जनव्यवहितेऽप्यकारे लघौ भवति । एवम् अनेकवर्णव्यवहितेऽपि गकारस्याकारे लघौ भवतीत्यर्थः । अत् त्वरादीनां चेति वचनादिति । तद्धि वचनम् अतत्वरदित्यादौ सन्वद्भावापवादस्य विधानार्थमुच्यते ।
1
यदि चानेकवर्णव्यवहिते लघौ सन्वद्भावो न स्याद् इहाप्यनेकवर्णेन त्वशब्देन व्यवहितेऽकारे न भवतीति अलम् अत् त्वरादीनां चेति वचनेन । मतमिति मतान्तरमित्यर्थः। अयं पुनर्मन्यते अजजागरदिति भवितव्यम् । यतो येन नाव्यवधानं तेन व्यवहितेऽपि स्यादिति । अचीकरदित्यादौ एकवर्णेन व्यवधानमशक्यपरिहारं वचनप्रामाण्यादाश्रीयते न त्वनेकेनेति । यत् पुनः 'अत् त्वरादीनां च' इति वचनं तद् ‘अचीक्वणद् अचीक्रमत्' इत्यादावनेकव्यञ्जनव्यवधाने ज्ञापकं समानविषयत्वान्न तु सर्वोद्दिष्टमिति भावः। अचकमत इति । कममात्राच्चण् । ननु चण्परो यस्मादिति बहुव्रीहिणा अर्थादिन्नेवावसीयते, न तु चण् चासौ परश्चेति कर्मधारयः, तदा चणीति विदध्यात् । तस्माद् अचकमनेति केवलचणि परग्रहणादेव न भविष्यति