SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४०२ कातन्त्रव्याकरणम् ५३२. अलोपे समानस्य सन्वल्लघुनीनि चण्परे [ ३ | ३ | ३५] [सूत्रार्थ] समानसंज्ञक वर्ण का लोप न होने पर लघुधात्वक्षर के परे रहते अभ्यास को सन्वत् कार्य होता है इन् प्रत्यय के परवर्ती होने पर, यदि उस इन् प्रत्यय के बाद चण् प्रत्यय विद्यमान हो तो ।। ५३२ । [दु० वृ०] समानसंज्ञकस्यालोपे सति लघुनि धात्वक्षरेऽभ्यासस्येनि चण्परे सन्वत् कार्यं भवति । अपीपचत्, अलीलवत्, अशिश्रवत् । अलोपे समानस्येति किम् ? अचकथत् । कथं पटुमाख्यातवान् अपीपटत् । वृद्धौ सन्ध्यक्षरलोपः । लघुनीति किग् ? अततक्षत् । कथम् अजीजागरत् ? अनेकवर्णव्यवधानेऽपि लघुनि स्यादेवेति मतम् । " अत् त्वरादीनां” चेति वचनात् । इनीति किम् ? अचकमत । इनीति जातिनिर्देशाद् वादितवन्तं प्रयोजितवान् अवीवदद् वीणां परिवादकेनेति इनीनो लोपेऽपि स्यात् । चण्पर इति किम् ? रिरमयिषति । दीर्घो घोर्मा भूत् ॥। ५३२ । [दु० टी०] 377 अलोपे० | " सन्यवर्णस्य, उवर्णस्य जान्तस्थ० (३ । ३ । २६, २७ ) इत्याभ्यां योगाभ्यां ‘“श्रुस्रुद्रुनु०” इत्यादिना च योगविभागेन प्राप्तं कार्यम् अतिदिश्यते इति । क्रमेणोदाहरणं सूचयति । अचकथदिति 'कथ वाक्यप्रबन्धे' (९।१७४), चुरादावदन्तः । अस्य च लोपे सति स्थानिवद्भावाद् व्यवधानतैव कथं प्रत्युदाहरणम् । तथा कथामाचष्टे इति विवक्षायामपि । नैवम्, यथा लघुनीत्यस्य प्रत्युदाहरणम् अततक्षदित्यनेकवर्णव्यवधानेऽपि भवति, तथेदमपीति भावः । किञ्च दृशदमाख्यातवान् अददृशत् । नात्र स्थानिवद्भावोऽन्त्यस्वरादिलोपत्वात् । कथम् अजीजागरदिति । अत्राप्याकारस्य दीर्घत्वाद् गुरुत्वम्, नैवम् । यथा अचीकरदित्यादौ ककारादिना व्यवधाने भवति, तत्रात्रापि गकाराकारे लघावित्यर्थः । तदयुक्तम्, येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्, वचनप्रामाण्यादिति, येन नियतभावेनेकन वर्णेन व्यवधानमशक्यपरिहारं तदेवाश्रीयते, न पुनरनेकेन वर्णेनेति पक्षं दूषयन्नाह - अनेकेनेत्यादि | मतं मतान्तरमेतत् । अजजागरद् इति भवितव्यम् - 'अचिक्वणत्, अचिक्रमम्' इत्यादावनेकव्यञ्जनव्यवधाने ज्ञापकमेतत् । न च सर्वोद्दिष्टमत्वरादीनां चेति भावः । " अचकमतेति । कमिमात्राच्चण्, यदीनूग्रहणं न स्याद् इहापि स्यादिति मतम् । ननु चण् परो यस्मादिति बहुव्रीहिणा अर्थाद् इनेव गम्यते, किमिनग्रहणेन । न च
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy