________________
३८४
कातन्त्रव्याकरणम्
इति सिद्धम् । श्रु इत्यादि वक्तव्यं व्याख्येयम् । इह योगविभागादियमिष्टसिद्धिरिति भावः ।। ५२४ ।
[बि० टी०]
उवर्णस्य० । उवर्णस्येति किमिति वृत्तिः । ननु सनि परतो योऽभ्यासः इत्युक्तम्, ततो यथा उवर्णो न भवति तथा सन्यभ्यासोऽपि न भवति ? सत्यम् । न ह्यत्र सन् प्रत्ययः श्रुतः, किन्त्वधिकारानुमितः कुतः सनि योऽभ्यासस्तस्येति वक्तुं पार्यते, येन बोभविषतीति प्राप्तिर्नास्तीत्युच्यते । अथ सन्यभ्यासस्येति पूर्वं श्रुतम्, अत्रापि तदेव वर्तते चेत् तर्हि पराश्रयणार्थमिति हेमकरः । पराश्रयणमिति । परो हि सन्यभ्यासस्येति श्रुतव्याख्यानं न मन्यते, किन्तु सनि परतोऽभ्यासस्य य उवर्णस्तस्येति वृत्तिपाठः । तन्मतमवलम्ब्य प्रत्युदाहरणमिति भावः । पण्डितः पुनराह – उवर्णस्येति किम् । वर्णग्रहणं किमित्यर्थः । तदा ओरिति कृतम् । ओरिति ङस आदिलोपः सूत्रत्वादिति प्रतिपत्तौ ओकारस्येकारो भवतीत्यर्थे कथं सन्यभ्यासस्येति वक्तुं युज्यते, असम्बन्धादिति । तथा च वार्त्तिकम् -
वर्णग्रहेऽस्मिन् कृतखण्डनेऽस्मिन् ओरूपनिर्देशनमाह तस्मिन् । ओतो यदा स्यान्न तदास्ति सन्यभ्यासेति संयोज्यमपप्रयोगात् ॥ इति सुगमम् ।
वस्तुतोऽत्र सनि परतोऽभ्यासस्येति वृत्तौ पाठः, न तु सनि परतो योऽभ्यास इति । वर्णग्रहणस्थितौ तत्सम्बन्धव्यावृत्तेरभावात् । अत्रोक्तम् - उवर्णस्येति किम्, यदि पूर्वसम्बन्ध इह क्रियते, तदा वर्णग्रहणं सुखार्थम् । एतच्च ज्ञापकमिति । ननु द्विर्वचनात् प्राग् इनि यत् कृतं तत् सर्वं स्थानिवदिति स्थानिवद्भावो विधीयते, तदा अजान्तस्थापवर्गपरस्येति कस्य विशेषणं भवतु ? सत्यम् । अवर्णे परे अजान्तस्थापवर्गायोग्यतयाऽभ्यासात् परे यस्य मूलधातोरिति बहुव्रीहिणा मूलधातुरुक्त इति पण्डितः । तथा च वार्त्तिकम् -
अवर्णपूर्वाजमुखं परं स्यादभ्यासतो योग्यतया तु यस्य । धातोर्बहुव्रीहिसमासगम्यः स मूलधातुर्न ततोऽस्ति दोषः ।। अस्यार्थः अवर्णपूर्वमजमुखमजान्तस्थादिकम् । ( अजान्तस्थापवर्गपर ) योग्यतयाभ्यासात् परस्य (परो) यस्य धातोर्बहुव्रीहिसमासगम्यः स मूलधातुरिति, ततो न दोष इति । उवर्ण इति अजान्तस्थापवर्गाणां विशेषणम् उवर्ण इत्यादिपङ्क्तिर्युज्यते इत्यवधिरशुद्धः । अत्र यस्येति यदुक्तं परयोग - पञ्चम्येव युज्यते ।
—