________________
तृतीये आख्याताध्याये तृतीयो बिचनपादः ननु अरः पूर्वम् “ऋच्छ अतः" (३।६।१७) इति गुणः कथं न स्यात्, अथारो वर्णत्वादन्तरङ्गमिति चेद् 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति गुण एव भवितुमर्हति ? सत्यम्, पञ्जिकायां कक्षानवतारे प्रलपितमिदम् । वस्तुतस्तु अरं बाधित्वा गुण एव प्राग् भवति । एवं च सति असन्ध्यक्षरविधेबर्बाधकत्वादेवात्र दीर्घविधिः, न तु ऋवर्णे प्राप्तस्यारादेशस्येति, अत एव नायम् अकारलोपस्य बाधको दीर्घः इति यदुक्तं तदेव स्पष्टयति तस्माद्ग्रहणेनेत्यादि । ननु यद्यकारलोपबाधकाद् दीर्घान्नकारागमस्तदा 'आनृधे' इत्यादि कथम्, न ह्यत्राकारलोपस्य बाधको दीर्घः ? सत्यम् । अत्र वैयः
अलोपबाधात्मकमात्रदीर्घान्न नागमः किन्तु स पूर्वदीर्घात् ।
अस्य प्रवृत्तिश्च न यत्र सिद्धिस्तेनानृधेकादिपदस्य सिद्धिः॥ अस्यार्थः- नकारागमोऽलोपबाधात्मकमात्रदीर्घात् केवलाकारलोपबाधकदीर्घान्न भवति, किन्तु स नकारागमः पूर्वदीर्घात् तच्छब्दस्यानुभूतपरामर्शित्वात् पूर्वदीर्घश्चाकारलोपस्य बाधकः, अरोऽपि बाधकः । ननु आञ्छतुरित्यादौ समानदीर्घबाधको दीर्घः कथन्न स्याद् इत्याह - तस्येति । तस्य दीर्घस्य प्रवृत्तिर्यत्र न स्यात्तत्रैव दीर्घस्य सिद्धिः, तत्रैव पूर्वेण दीर्घः क्रियते । अत्र तु समानलक्षणो दीर्घोऽस्त्येव किन्तेन दीर्घविधाने नेति भावः । न च वक्तव्यम् - दीर्घसिद्धावपि नकारागमार्थं पूर्वेणापवादकत्वात् तद्बाधको दीर्घः स्यात् । यथा नाम्यन्तानामित्यत्र गुणनिषेधबाधनार्थं दीर्घस्यापि दीर्घ इति वक्ष्यति । यतस्तस्माद् ग्रहणव्यावृत्तिबलात् पूर्वेण न दीर्घः । तेन समानलक्षणबाधको दी? भवति । अत एव "अस्यादेः सर्वत्र" (३।३।१८) इत्यत्र हेमकरेणोक्तम् । असन्ध्यक्षरविधेवर्णेऽरोऽपि बाधकोऽयमिति । तेनेति अकारलोपबाधकत्वेन हेतुना आनृधेकादिपदसिद्धिरित्यर्थः ।
ननु यदि दीर्घविधौ च तस्माद्ग्रहणव्यावृत्तिबलात् पूर्वेण दीर्घ इत्युक्तम्, तदा पज्जिकायां यदि पुनरन्तरङ्गत्वादिति पक्षस्तदा तस्मादिति सुखार्य भवतीति कथं वक्ष्यति ? सत्यम्, एवं तदानीं वक्तव्यम् - दी| बाधको भवन्नेत प्रकरणविहितस्य कार्यस्य श्रुतत्वात्, तर्हि अरादेशस्य बाधको न भवितुमर्हतीति न देश्यम् । ऋकारे चेति वचनादेवारादेशस्य बाधको दीर्घः प्रतिपत्तव्यः । यद्येवं वृत्तौ नायमकारलोपस्य बाधको दीर्घ इति कथमुक्तम् ? सत्यम् । तत्र पण्डितः
अलोपबाधा यदिह प्रविष्टा प्रायेण यद् वा खलु भाविता सा। तस्या अभावेऽपि ततः प्रसिद्धा सिद्धिगतान्यानृष इत्यमूनि ॥