________________
३६६
कातन्त्रव्याकरणम्
अस्यार्थः यस्मादलोपबाधा प्रायेण प्रविष्टा तत् तस्मात् सा भाविता, अतस्तस्या अभावेऽपि बाधा प्रसिद्धेति यदुक्तम्, तत् समानदीर्घमपेक्ष्य मया पुनः पूर्वमुक्तोऽस्य समाधिरेवेति । ननु आगमग्रहणं किमर्थम्, परादिः परावयव इत्युक्ते आगमत्वलब्धेरिति । नैवम्, परस्यादिवर्णो नकारो भवतीत्युक्ते कथमागमत्वम्, नैवम् । तदा परादेरिति कुर्यात् ? सत्यम् | सुखार्थमागमग्रहणमिति टीकायां चेद्ग्रहणमपि तथैव । नन्वन्तग्रहणं किमर्थम् अर्थादन्त एव संयोगो गम्यते । नैवम्, अन्तग्रहणाद् धात्वन्त एव संयोगो भवतीति प्रतिपत्त्यर्थम्, तेन आश्वान् मुखम् इत्यत्र क्वन्सुप्रत्ययेन संयोगे न भवतीति पण्डितः । तथा च वार्त्तिकम् -
धात्वङ्गभावादिह चेन्न चान्तो विशेषणं स्यात् क्वन्सोश्च सगे । संयोगसत्त्वेन भवेन्नकार आश्वान् मुखं केवलमेव दोषः ॥
अस्यार्थः - अन्तग्रहणाद् धात्वङ्गसंयोगो यदि भवाते, तदैवेह पुनः क्वन्सोः सङ्गे धात्वङ्गाभावात्, धात्वङ्गं चेद् अन्तविशेषणं न स्यात् तेन संयोगसत्त्वे एव नकारो न स्यात् कुतस्तत्र आश्वान् मुखमित्यत्र दोषः स्यात् ।। ५१६ ।
[समीक्षा]
‘आनञ्ज, आनञ्जतुः, आनञ्जुः, आनर्च्छ, आनर्च्छतुः, आनछुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यास के बाद मूलभूत स्वरादि धातु से पूर्व नकारागम की आवश्यकता होती है | इसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है – “तस्मान्नुड् द्विहलः " ( अ० ७।४।७१ ) । इस प्रसङ्ग में व्याख्याकारों ने ‘हेमकर-वैद्य- पण्डित' आदि आचार्यों के भी विविध मत उद्धृत किए हैं ।
[विशेष वचन ]
१ . नायमकारलोपस्य बाधको दीर्घ : (दु० वृ० ) ।
२. वचनात् प्रतिपत्तिगौरवं स्यात् (दु० टी० ) ।
३. अन्तसंयोग इति सिद्धे चेद्ग्रहणं सुखार्थम् (दु० टी०) ।
४. अर्थवशाद् विभक्तिविपरिणामो भविष्यति तदा तस्माद्ग्रहणं सुखार्थमिति ( वि० प० ) ।
५. पञ्जिकायां कक्षानवतारे प्रलपितमिदम् । वस्तुतस्तु अरं बाधित्वा गुण एव प्राग् भवति (बि० टी० ) ।
६. सुखार्थमागमग्रहणमिति टीकायां चेद्ग्रहणमपि तथैव (बि० टी० ) ।