________________
३६४
कातन्त्रव्याकरणम्
आकारोऽभ्यासोऽन्तरोऽवधिरेवेति पञ्चम्यर्थोऽपि युज्यते । आगमग्रहणं सुखार्थम् । तस्य नोऽन्त इत्यास्ताम्, किमिह परादिरित्यनेन ? सत्यम्, उत्तरार्थम् । अन्यथा आरतुरित्यत्र 'स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्' (का० परि० ९) इति ऋकारस्य रत्वे नकारागमः प्रसज्येत, न च स्वरत्वान्नकारागमोऽन्तरङ्गो वर्णत्वाद् रेफोऽन्तरङ्ग इति । अथ 'प्रकृत्याश्रितमन्तरगम्' (का० परि० ७२) इति मन्यते, एवं च सति 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति मतद्वयं विगणय्य वक्ष्यति - कथम् आरतुः, निमित्ताभावादिति । अथ "ऋच्छ अतः" (३।६।१७) इति दीर्घ कृत्वा अर्तेर्गुण उच्यते, वचनात् प्रतिपत्तिगौरवं स्यात् । अन्तसंयोग इति सिद्धे चेद्ग्रहणं सुखार्थम् ।। ५१६।
[वि० प०]
तस्मात् । आनजेति ।अन्जू, अट्, द्विर्वचनम्, अभ्यासलोपः, “असन्थ्यक्षरयोरस्य तो तल्लोपश्च" (३।६।४०) इति बाधित्वा "अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घः । ततो नित्यत्वादन्तरङ्गत्वाच्च परलोपं बाधित्वा अनेन नकारागमः । एवम् आनछेति । ऋच्छेरन्तरङ्गत्वाच्छस्य द्विर्भावे कृतेऽघोषे प्रथमः इति चान्तसंयोगो भवति, ऋवर्णस्याकारे कृते ऋवर्णेऽरं बाधित्वा पूर्ववद् दीर्घः । ततः "ऋच्छ ऋतः" (३।६।१७) इति गुणे कृते नकारागमः । तस्मादित्यादि । 'आछि आयामे' (१९५५), इदनुबन्धत्वान्नागमः । अभ्यासस्य ह्रस्व इति कृते समानलक्षणोऽत्र दीर्घः, तस्माद्ग्रहणेन दीर्घमात्रं न परामृश्यते, किन्तर्हि "असन्ध्यक्षरयोरस्य" (३।६।४०) इत्यादिना प्राप्तस्याकारलोपस्यापवादोऽनन्तरसूत्रविहितो दीर्घस्तेनेह न भवति । यदि पुनरन्तरङ्गत्वात् पूर्वसूत्रविहितो विशिष्टो दीर्घः प्रवर्तते इत्युच्यते, अर्थवशाद् विभक्तिविपरिणामो भविष्यति, तदा तस्माद् ग्रहणं सुखार्थमिति ।। ५१६।
[बि० टी०]
तस्माद् अन्तरङ्गत्वाच्चेति । ननु कथमिदमुक्तम्, वर्णत्वादकारलोप एवान्तरङ्ग इति ? नैवम्, 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) प्रकृत्याश्रितत्वान्नकारागम एवान्तरङ्ग इति ऋच्छेरन्तरङ्गत्वादिति । ननु कथमिदमुक्तम्, विना द्विर्भावण नकारागम एव न प्राप्नोति, ततोऽवश्यमेव द्विर्भावः पूर्वभावीति ? सत्यम् । अत्र हेमकरेणोक्तम्द्विविं प्रत्यन्तरङ्गचिन्ता कृता 'असिद्धं बहिरङ्गम्' (का० परि० ४३) इति शङ्कादोषाद् एतेनास्याप्यन्तरङ्गेऽस्य परिभाषाया अवतारो नास्तीति प्रतिपादितम् । ऋवर्णेऽरं बाधित्वा पूर्ववद् दीर्घः ।