________________
३४८
कातन्त्रव्याकरणम्
टवर्गाट् टवर्गः” (३|८|५) इति धस्य ढत्वम् “ढे ढलोपो दीर्घश्चोपधायाः” (३|८|६) इति ढकारलोपो दीर्घश्च । ततः - "इन् कारितं धात्वर्थे” (३।२।९) इतीन्, “इनि लिङ्गस्य ०" (३।२।१२) इत्यादिनाऽन्त्यस्वरादिलोपः, अद्यतन्यां दि, चण्, “स्वरादीनां वृद्धिरादेः” (३।८।१७) इत्युकारस्यौकार इति । 'इनि यत् कृतं तत् सर्वं स्थानिवत्' इति वचनाद् इनि लुप्तस्याकारस्य स्थानिवद्भावात् " स्वरादेर्द्वितीयस्य " ( ३।३।२) इत्यकारसहितस्य हकारस्य द्विर्वचनम्, “हो जः' ( ३।३।१२), समानलोपत्वान्न सन्वद्भावः । सिद्धान्तमाह- 'असिद्धं बहिरङ्गमन्तरझो' (का० परि० ४३ ) इति, 'प्रकृतेः पूर्वं पूर्वं स्यादन्तरगम्' (का० परि० ७१ ) इत्यन्तरङ्गे द्विर्वचने कर्तव्ये बहिरङ्गं ढत्वमसिद्धं स्यात्, अतो हकारस्य द्विर्वचनम्, परकार्यं तु ढत्वादिकम् प्रतिषिद्धमेवेति अकारवतो हकारस्य द्विर्वचनं न विरुध्यते । एके अन्ये इत्यर्थः ।
अयं तु मन्यते - इनि चणपेक्षत्वाद् द्विर्वचनमेव बहिरङ्गम्, तद् ढत्वं तु न बाह्यमपेक्षते कथं बहिरङ्गं स्यात् । अथ असिद्धवद्भावस्योपसंख्यानादेवमुच्यते इति चेत्, न । तस्यापि द्विर्वचनेन प्रत्याख्यातत्वात् । यदाह वार्त्तिकः - 'पूर्वत्रासिद्धीयमद्विर्वचने' इति द्विर्वचनादन्यत्र पूर्वस्मिन् कार्ये कर्तव्ये परकार्यमसिद्धं भवति, द्विर्वचने कर्तव्ये न भवतीति तन्त्रान्तरे प्रसिद्धिः, तस्माद् औडढद् इतीह भवितव्यम् । यदा क्तान्ताद् ऊढिशब्दाद् इन्चणौ, तदा औडिढदिति भवति ॥ ५०८ |
[बि० टी० ]
द्वितीय० । कथम् औजढद् इति, असिद्धं बहिरङ्गम् इत्यस्य निर्गलितं पञ्ज्यां कथमित्यादिना समानलोपत्वान्न सन्वद्भाव इति पर्यन्तेन प्रतिपादयति । अत्र यत् कृतं तत् सर्वं स्थानिवदिति । ननु कथमस्य विषयः अजान्तस्थापवर्गपरस्यावर्णे एव वेदितव्यम् इत्युक्तत्वात् न ह्यत्रावर्णः परो विद्यते इति ढकाराकारस्य लुप्तत्वात् ? सत्यम्, अत्र केचिद् आचक्षते - परिभाषाज्ञापनेऽवर्ण इति विषयसप्तमी, ततो लोपेऽपि बुद्धिस्थेऽवर्णः परो विद्यत एव । अन्ये पुनराहुः - अवर्णे परे जान्तस्थापवर्गाः परे यस्मादभ्यासात् तस्य भाविनः सम्बन्धिनि मूलधातौ तत् सर्वं स्थानिवदिति, एतेन पश्चादेवम्भूतोऽभ्यासो यस्य भावी तस्मिन् मूलधातौ स्थानिवदिति । एवं सति प्राक् स्थानिवद्भावे पश्चादवर्णे परेऽजान्तस्थापवर्गपरोऽभ्यासो विद्यते एव, पूर्वपक्षे त्ववर्णे विषयभूतेऽजान्तस्थापवर्गा योग्यतामपेक्ष्याभ्यासात् परे यस्य धातोः स्थानिवदिति ।
अपरे तु एवं समादधुः - अजान्तस्थापवर्गा वर्णान्तरपरा भवन्तोऽवर्ण एव नान्यस्मिन्निति नियमः । यत्र त्वन्यः परो न भवति तत्र सुतरामेव भवति, अत एव पञ्याम् अवर्ण एवेत्युक्तम् । कुलचन्द्रोऽपि एतच्चाजान्तस्थापवर्गपरस्यावर्णे वेदितव्यमिति