________________
कातन्त्रव्याकरणम्
जातेरवबोधकम्, अन्यथा शेष्यमित्युक्तेऽपि सिध्यत्येव । किञ्चात्रावग्रहणेन " स्वरादेर्द्वितीयस्य " ( ३ | ३ ।२) इति व्यक्तिरवधारिता भवति । क्वचिज्जातिः क्वचिद् व्यक्तिः, क्वचिदुभयमिति लोकतः सिद्धमिति । ननु सुखावबोधकं शेष्यमित्यादि व्यक्तावपि न दोषः । यद्यपि आदिशेषस्योक्तितः प्राधान्यं प्रतिभाति, तथापि विधेयत्वादनादिनिवृत्तिरेव । वस्तुतः प्रधानं प्रतीयते इति, तर्हि जातेः कोऽन्यो भेदः इत्यवग्रहणं युक्तमिति ||५०६ | [वि० प० ]
३४०
अभ्यास० | अवशिष्यते इत्यवशेष्यम्, व्यञ्जनान्ताद् घ्यण् । ननु यद्यवशेष्यं रक्षणीयमित्यर्थः, तच्चादेः सिद्धमेव निवर्तकाभावात्, किमनेनेत्याह- अनादिर्लोपनीय इत्यर्थ इति आदेरवस्थाने सिद्धे यत् पुनर्विधानं तन्नियमार्थम् । आदिरेवावशिष्यते, न पुनरनादिरित्यर्थः । शिश्रायेत्यादि । 'भज श्रिञ् सेवायाम् ' (१/६०४), अट्, द्विर्वचनादिर्व्यञ्जनमवशेष्यम्, “अस्योपधायाः ०" ( ३।६।५ ) इत्यादिना वृद्धिः । जग्लाविति । ‘ग्लै हर्षक्षये’ (१।२५१), अट्, द्विर्वचनमादिर्व्यञ्जनमवशेष्यम्, अभ्यासे कवर्गस्य चवर्गः, आकारादट आवित्यौकारे कृते सन्ध्यक्षरे चेत्याकारलोपः । भ्रमेश्च गत्यर्थत्वात् कौटिल्य एवेति यशब्दे कृते द्विर्वचने “ अतोऽन्त ० " ( ३ | ३ | ३१ ) इत्यादिनाभ्यासेऽनुस्वारागमः । व्यञ्जनेत्यादि । आदिरवशेष्य इत्युक्ते विशेषाभावाद् वर्णमात्रमवशिष्यते, ततस्तज्जातीयत्वादमादेरपि वर्णमात्रस्य लोपो भवन् स्वरस्यापि स्याद् इत्यर्थः । ननु “ दीर्घोऽनागमस्य, गुणश्चेक्रीयिते, सन्यवर्णस्य” ( ३।३।२९, २८, २६) इति ज्ञापकं स्वरस्य लोपो न भविष्यति । न ह्यभ्यासस्वरलोपे सति दीर्घादिकार्यमुपपद्यते स्थानिन एवाभावात् नैवम् । सविकल्पान्यपि झापकानि भवन्ति, तर्हि आदिव्यञ्जनं यत्र नावशिष्यते तत्रानादिव्यञ्जनस्य केन प्रकारेण लोपः स्यात्, तस्यादिव्यञ्जनावशेषनिमित्तत्वादित्याह - कथमित्यादि ।
एवं मन्यते - नात्राभ्यासव्यक्तिराश्रीयते किन्तर्हि जातिः, जातेश्चैकत्वादभ्यासस्य क्वचिदेकलक्ष्ये 'पपाच' इत्यादौ चरितार्थत्वादादिव्यञ्जनावशेषः सर्वत्रानादिव्यञ्जननिवृत्तिं करोति । व्यक्तिवादनिबन्धनो हि क्वचिदादिशेषाभावेऽनादिव्यञ्जननिवृत्तिं विधुरयति । जातौ तु पदार्थे आदिशेषाभावस्यैवाभावादिति जातिपदार्थश्चावग्रहणादेवावधार्यते । अन्यथा 'शेष्यम्' इत्येवं सिद्धम् । एतदेव सूचयति - अवगतं शेष्यमिति । यदि पुनः क्वचिज्जातिः क्वचिद् व्यक्तिः क्वचिदुभयं लोकतः सिद्धम् इत्ययं पन्था आश्रीयते, तदाऽवग्रहणं सुखार्थमेवेति । आटतुरिति । 'अट गतौ ' (१।१०२), अतुस्, द्विर्वचनम्, अभ्यासटकारलोपः, “अस्यादेः सर्वत्र"