________________
३३२
कातन्त्रव्याकरणम्
[दु० वृ०]
चणाद्यन्तेषु द्विर्वचनं भवत्यधिकारवशात् । अपीपचत्, औन्दिदत्, पपाच, पापच्यते, प्रोर्णोनूयते, पिपक्षति, अटिटिषति । अन्तग्रहणं संश्चेक्रीयितयोरपि द्विर्वचनार्थम् । तेन अर्थान् प्रतीषिषति, अटाट्यते ।। ५०४।
[दु० टी०]
चण्० । चण् च परोक्षा च चेक्रीयितं च संश्च, ते अन्ते येषाम् इति विग्रहः । अन्तग्रहणमित्यादि । यद्यन्तग्रहणं न स्यात् तदा परसप्तमीयं सम्भाव्यते । संश्चेक्रीयितयोः पूर्वस्यैव द्विर्वचनं प्राप्नोति । अटिटिषतीत्यत्र च नेटो द्विवचनम्, सप्तम्युक्तत्वात् । चण्परोक्षयोरन्तशब्देन सम्बन्धः, एकविभक्तिनिर्दिष्टत्वात् । अथानयोरकारकरणाद् विषयसप्तमी चेद् अन्तग्रहणं स्पष्टार्थम् । सत्यामपि विषयसप्तम्यां 'जागराञ्चकार' इत्यनुप्रयोगस्यैव द्विवचनम्, सन्निधानादनुप्रकाशत्वाच्चेति । अन्य आह - चण् च परोक्षा च चेक्रीयितसनन्तश्चेति विग्रहः, संश्चेक्रीयितयोरन्तसम्बन्धसामर्थ्याद् विषयसप्तमी, इतरत्र तु परसप्तमी || ५०४।
[वि० प०]
चण् । चण् च परोक्षा च चेक्रीयितं च संश्चेति द्वन्द्वः । ते अन्ते येषामिति विग्रहः । अपीपचदिति । पचेहेंताविन्, “श्रिद्रुनुकमि०" (३।२।२६) इत्यादिना चण्, द्विर्वचनम्, "इन्यसमान०" (३।५।४४) इत्यादिना ह्रस्वः, “अलोपे०" (३।३।३५) इत्यादिनाऽभ्यासे सन्वद्भावः, "सन्यवर्णस्य" (३।३।२६) इतीत्त्वम्, “दीर्घो लघोः" (३।३।३६) इति दीर्घः । औन्दिददिति । 'उन्दी क्लेदने' (६।१६), पूर्ववद् इन्, चण्, "स्वरादेर्द्धितीयस्य" (३।३।२) इति "न नबदराः संयोगादयोऽये" (३।३।३) इति प्रतिषेधान्नकारवर्जितस्य द्विर्वचनम्, स्वरादीनां वृद्धिर्दी? लघोर्न भवति, तत्रास्वरादेरिति प्रतिषेधात् । अन्तग्रहणमित्यादि । अन्यथा 'चण्परोक्षाचेक्रीयितसन्सु' इत्यत्र परसप्तमीयं स्यान्न विषयसप्तमी, ततः 'सप्तम्या निर्दिष्टे पूर्वस्य' (कात० प० २१) इति संश्चेक्रीयितयोर्निमित्तभूतयोः पूर्वस्यैव द्विवचनं स्यात्, न संश्चेक्रीयितयोरिति । अन्तग्रहणे तु बहुव्रीहिणा धातवो निर्दिश्यन्ते, ततः संश्चेक्रीयितान्तधातुविषयं द्विर्वचनमिति विधीयमानं यथासम्भवं "स्वरादेर्द्धितीयस्य" (३।३।२) इति संश्चेक्रीयितयोरपि द्विर्वचनं भवति । "ते धातवः" (३।२।१६) इति तदन्तसमुदायस्य धातुत्वाच्चण – परोक्षाभ्यामन्तशब्दस्य सम्बन्धे एकविभक्तिनिर्दिष्टत्वात् ।
ननु सनोऽकारकरणादेव द्विर्वचनं भविष्यति, अकारस्यानन्यार्थत्वात् । तथा च तत्रोक्तम् – अकारोच्चारणं किम् ? "स्वरादेर्द्वितीयस्य" (३।३।२) इति द्विर्वचनार्थम् ।