________________
३३३
तृतीये आख्याताध्याये तृतीयो द्विचनपादः एवं सति विषयसप्तमीयं विज्ञास्यते, न परसप्तमीति । तथा चेक्रीयितस्याकारो बोधयिष्यति,तस्यापि अनन्यप्रयोजनत्वादिति किमन्तग्रहणेनेति ? सत्यम्, एवं सत्यन्तग्रहणं सुखार्थमेव भवतीति । प्रतीषिषतीति । प्रतिपूर्वः ‘इ गतौ' (१।१०२) । प्रत्येतुमिच्छतीति सन्, सनो द्विर्वचनम्, “सन्यवर्णस्य" (३।३।२६) इतीत्त्वम् । ‘अटाट्यते' इति साधितमेव ।। ५०४।
[बि० टी०]
चण्परोक्षा० । अन्तग्रहणे तु बहुव्रीहिणा धातवो निर्दिश्यन्ते इति । ननु अन्तग्रहणं किं समीपार्थं वा अवयवार्थम् । समीपार्थं चेत् तदा संश्चेकीयितसमीपकस्य धातोर्विचने कृते सति अन्तग्रहणास्थितौ परसप्तमीपक्षतो न भेदः, अन्तग्रहणमनर्थकमेव, परसप्तम्यैव सिद्धत्वात् । यदि अवयवार्थकं स्यात् तदा संश्चेक्रीयितयो
र्धातोरवयवत्वं घटते । "ते धातवः" (३।२।१६) इति तदन्तसमुदायस्य धातुत्वाच्चण्परोक्षाभ्यां न घटते, न हि चण्परोक्षे धातोरवयवौ ? सत्यम्, एकोऽप्यन्तशब्दोऽर्थगत्योभयार्थभाग् भवति । यथा “विरामव्यजनादौ" (२।३।६४) इत्यत्र सिविभक्तिरेकापि अर्थद्वयमभिदधाति विरामविषये व्यञ्जनादौ परत इति ।
___ अथ धातोरवयवार्थपक्षे बहुव्रीहिणा वारे सति धातुरधातुश्च समुदाय उच्यते । यद्येवं पनी न लगति ? सत्यम्, बहुव्रीहिणा धातवो निर्दिश्यन्ते इति यदुक्तं तच्चेक्रीयितसनन्तमपेक्ष्य बोद्धव्यम् । तथा च उमापतिः
सप्तम्यसौ वैषयिकी न धातुः समासगम्यं समुदायमात्रम् ।
पञ्चां प्रतीपं यदभाणि तत् संश्चक्रीयितान्तत्वमपेक्ष्य बोध्यम् ॥ अस्यार्थः- अन्तग्रहणादसौ सप्तमी वैषयिकी, समासगम्यं समुदायमात्रम्, न धातुरिति, तेनान्तग्रहणमवयवार्थमिति निश्चितमित्यर्थः । पञ्यां धातवो निर्दिश्यन्ते इति यद् विरुद्धमुक्तं तत् संश्चेक्रीयितान्ततया बोध्यमिति | केचिद् धातुशब्देन लक्षणया धात्वादिसमुदायोऽप्युच्यते इति वदन्ति । ननु धातुसमुदायनिर्देशे फलमेव नास्ति, तत् कथमुक्तं तद्दोषप्रशमनार्थमाह - चण्परोक्षाभ्यामिति ? तथा च वैयकारिका -
विभक्त्यभेदादिह चण्परोक्षाभ्यामन्तशब्दः सजतीति यच्च ।
अधातुनिर्देशननिष्फलत्वाद् दोषप्रमोषाय फलं तदुक्तम् ।। अस्यार्थः- विभक्तेरभेदाद् एकविभक्तिनिर्दिष्टत्वादन्तशब्दश्चण्परोक्षाभ्यां सह सजति संबध्नातीति पञ्जिकायां यदुक्तम्, तद्धातुनिर्देशफलाभाव इति यो दोषस्तत्प्रमोषाय खण्डनाय बोद्धव्यमिति । ततश्चेत्यादि । द्विर्वचनस्य सनन्तश्चेक्रीयितान्तश्च