________________
३२७
तृतीये आख्याताध्याये तृतीयो द्विचनपादः द्वयस्य संज्ञा विहितो न लोपोऽभ्यासे यदातो विहितो निमित्ते।
लोपस्य सम्बन्ध इह प्रतीतो हेतुस्वभावेन विचक्षणैश्च ॥इति । अस्यार्थः- द्वयस्याभ्यस्तसंज्ञाविधानेऽभ्यासे आतः आकारस्य लोपो न स्यात् । यतो यस्मानिमित्ते परलोपो विहितः । अथ निमित्तम् अभ्यस्तमिति वक्तव्यम् । तत्राह - लोपस्येत्यादि। इह लोपस्य हेतुस्वभावेन विचक्षणः सम्बन्धः प्रतीतः प्रतीयते, न त्वभ्यस्तस्येत्यर्थः । न च वाच्यम्, द्वयम् – ग्रहणबला व्यवहितेऽपि स्यात्,तबलादभ्यस्तेन सम्बन्धो वेति, यस्माद् इष्टार्थमुपादीयमानं शास्त्रं कथमनिष्टाय कल्प्यते इति । ननु टीकायां दित्सन्ति, अदित्सन्निति "लोपोऽभ्यस्तादन्तिनः" (३।५।३८), अनश्च उस् न भवतीति । अत्र स्थानिवद्भावादिति टीकावचनं न लगति, 'स्वरादेशः परनिमित्तकः पूर्वविषिं प्रत्येव' (कात० प०९), अयं तु परविधिः कुतः स्थानिवद्भावः ? तदयुक्तम्, अभिप्रायापरिज्ञानात् । अत्र स्थानिवद्भावः परनिमित्तादेश इति स्यात् "सनि मिमी०" (३।३।३९) इत्यादिना अभ्यासलोपे द्वयाभावादित्युक्तं तत् कथं 'द्वयस्य संज्ञान्यफलाय नैव' इत्यभाणि | न च वाच्यम्, परोऽभ्यस्तम् । पूर्वमन्तरेण परो न सम्भवतीति । पूर्वस्य लोपे न परः इति अभ्यासलोपेऽभ्यस्तसंज्ञा न भविष्यति । यतः पूर्वं द्विर्वचने द्विरुक्तस्य परोऽवयवो दाधातुर्भवत्येव ।नचेदानीमभ्यासलोपे परावयवत्वहानिरिति पूर्वं परावयवत्वे इदानीमपि तथैव प्रतीतेः । न हि कस्यचिद् वृक्षस्य पूर्वावयवच्छेदेऽस्य परावयवो विद्यते इति न व्यवह्रियते।
कथमुक्तं द्वयाभावादिति टीकायां दुर्गवाक्ये वा द्वयंग्रहणे तु द्वयोर्भवतीति दित्सन्तीत्यत्र नलोपप्राप्तिरित्याह - द्वयाभावादिति । कथमुक्तं द्वयंग्रहणाभावेऽपि तस्य सिद्धेरिति । तस्मात् तदुक्तं सर्वत्रेष्टाश्रयणं पूर्वोक्तं च द्वयंग्रहणादृते इति केचित् । वस्तुतस्तु टीकायाम् अत एव जुहूषतीत्यत्र द्वयंग्रहणस्य फलं दृष्ट्रा परपक्षमाह- अकारलोपस्य परनिमित्तादेशःपूर्वस्मिन् स एवेति स्थानिवद्भावा व्यवधानता |अतो नकारलोपाभावोऽन उसादेशाभावः । पण्डितः पुनराचष्टे- सर्वस्यैव भवतीति जुहूषतीत्यत्र पूर्वस्य परस्य च भवति "न सम्प्रसारणे०" (३।४।१७) इति प्रतिषेधः, तन्न । जातिपक्ष द्वयंग्रहणबलात् "न सम्प्रसारणे" (३।४।१७) इत्यत्र न वर्तते । “अभ्यस्तस्य" (३।४।१५) चेत्यत्रोपचारो व्यक्तिपक्षे द्वयंग्रहणादिति । अथ व्यक्तिपक्षेऽपि द्वयंग्रहणान्न सम्प्रसारणे इत्यस्य बाधा कथन्न क्रियते, नैवम् । व्यक्तिपक्षे प्रतिलक्ष्ये लक्षणानि भिद्यन्ते, तत एतल्लक्ष्यविषयस्य लक्षणस्य कृतार्थता स्यात् । उपचारे तु एतल्लक्ष्यविषये लक्षणस्य विषयो नास्त्येवेत्यदोषः । तथा चात्र वार्तिकम् -