________________
कातन्त्रव्याकरणम्
तथाहि परोऽभ्यस्तम्, परश्च पूर्वमन्तरेण न भवतीति पूर्वस्याभ्यासस्य मुख्यं परम्परया चणादीनां निमित्तत्वं गौणम्, द्वयम् - ग्रहणे तु द्वयमभ्यस्तं द्वयस्य निमित्तं चण् – सनादिरेव,अभ्यस्तनिमित्तप्रत्यय इत्यभ्यस्तमित्युपचारः संगच्छते । हेमकरेणाप्युक्तमिदं चेत्, नैवम् | परस्याभ्यस्तत्वे मुख्यं कारणम् अभ्यास एवेति नोपचारः । कारणं ह्वयतेर्नित्यम् अभ्यस्तस्य चेति योगविभाग एव । द्विर्वचननिमित्ते कारितव्यवधान एव यथा स्यादित्युक्तत्वात् । तथा च उमापतिः पुनराह -
३२६
द्वयंग्रहे तिष्ठति नात्र तत्राभ्यस्तं परं हे विहितेऽस्य हुत्वे । कृतार्थता स्यादिति लक्षणस्य न लक्षणा संश्च तया न लक्ष्यः ॥ तस्मादिदं लक्षणयैव धातोर्हुत्वेऽग्रतो द्विर्वचनात् पदस्य ।
सिद्धिं समावेशयितुं विधेयं द्वयस्य संज्ञाऽन्यफलाय नैव ॥ अस्यार्थः - अत्र द्वयंग्रहणे न तिष्ठति सति तत्र परं यदभ्यस्तं ( ) इति रूपम्, अस्य हुत्वे विहिते सति सूत्रस्य कृतार्थताऽभूदिति हेतोर्न लक्षणा, मुख्यार्थबाधेन लक्षणायाः कृतत्वात् । ततः संश्च न लक्ष्यः स्यात्, तस्मादिदं द्वयंग्रहणम्, मुख्यार्थबाधे सति लक्षणार्थं तदेवाह - तस्मादित्यादि । तस्माद् द्वयंग्रहणबलादग्रतः प्राग् हुत्वे विहिते सति पदस्य सिद्धिं समावेशयितुमिदं द्वयंग्रहणं विधेयम् । यद्येवम्, सर्वस्य भवतीति कथं संगच्छते, नहि तदा पूर्वस्य परस्य च संप्रसारणं भूतम्, कृतसम्प्रसारणस्य द्विरुक्तत्वात् । नैवम्, सर्वस्य भवतीति द्वयस्य सम्प्रसारणे यद् रूपं तद् रूपं भवतीत्यर्थः । ननु द्वयम्ग्रहणबलाद् द्वयोः पर्यायेण सम्प्रसारणं भविष्यति । कदाचित् पूर्वस्य सम्प्रसारणं परस्य निषेधः । कदाचित् परस्य सम्प्रसारणं पूर्वस्य निषेध इति । कथं तद्बलादुपचार इति ? नैवम्,“द्वयमभ्यस्तम्” (३ । ३ । ५) इत्युक्ते युगपदुभयोरभ्यस्तसंज्ञा न तु प्रत्येकमिति कथं पर्यायेण भवतीति चेत्, सत्यमेतत् ( वार्त्तिकम्), नहि द्वयस्य समुदायस्य संज्ञाविधानेनावयवस्य संज्ञा न स्यात् । नहि 'ब्राह्मणेभ्यो धनं दीयताम्' इत्युक्ते प्रत्येकं ब्राह्मणाय धनं दीयते इति ।
|
अथेष्टसत्त्वे पर्यायेण भविष्यतीत्यनिष्टकल्पना युक्तेति न स्यात् । अथ द्वयंग्रहणस्यान्यत् फलमस्ति, तत्कथं तद्बलाद् अभ्यस्तस्य चेत्यत्र लक्षणा भविष्यतीत्याह - द्वयस्य संज्ञाऽन्यफलाय नैवेति । द्वयस्याभ्यस्तसंज्ञान्यफलाय नैवेत्यर्थः । अथ कथमेतंद् यावता द्वयोरभ्यस्तसंज्ञायामभ्यस्तानामकारस्येत्यनेन पूर्वस्य परस्य चाकारलोपः स्यात् ? न चोद्यम्, प्रत्यये परे लोपो विधीयते कथं व्यवधाने स्यात्, तत्र हि निमित्तेन लोपस्य संबन्धः कृतो न तु अभ्यस्तेनेति । तथा च वार्त्तिकम् -