________________
कातन्त्रव्याकरणम्
दुर्गवाक्ये अटेष्टेर्व्यक्तेरेव द्विर्वचनमिति कुतः सूत्रभेदे अटो द्विर्वचनं स्यादिति । तदेवं
गदितम् -
३१६
'व्यक्तावटेष्टेरिति सूत्रभेदे त्वटः कुतो द्विर्वचनप्रसङ्गः' इति । तत्रेदं चिन्त्यते - ननु वचनबलादित्त्वं प्रबाध्य अटिषतीति रूपं स्यादिति कथमुक्तम् ? यदि इत्त्वबाधां करिष्यति, तदा अटेराद्यस्य द्विर्वचनेऽसन्ध्यक्षरविधौ कृते पश्चात् टेरेव द्विर्वचने अटिषतीति सिद्धम् । न च वाच्यम् - असन्ध्यक्षरविधिर्द्वितीयद्विर्वचनेन बाध्यते, यतो 'मध्येऽपवादाः पूर्वान् विधीन् बाघन्ते, न तु परान्' ( व्या० परि० पा० १०) इति न्यायात् । तर्हि कथं पजीकृता अटिषतीत्येतद्रूपं स्याद् एतच्चान्तरेणैतद् वचनं सिध्यतीत्यनर्थकमेव स्यात् ? सत्यम् । कक्षानवतारदशायां यदुक्तम् । पश्चात् तेनैवमित्यादिना सर्वमेव निरस्तम् । यतोऽसन्ध्यक्षरविधिरेव नास्ति, तन्मात्रं तु यदि इत्त्वं बाधते तदा अटिषतीति सूत्रस्य कृतार्थता च स्यात् । कथं वा इत्त्वबाधायां वचनस्य शक्तिः । ओण - धातोः उवोणिषतीति अत्र वचनस्याचरितार्थत्वात् । यदुक्तं टीकायाम् - ओणेश्च उवोणिषतीति । यच्च दुर्गवाक्येनोक्तम्- अत्राद्यद्वितीययोः क्रमेण द्विर्वचने ह्रस्वत्वे समानलक्षणदीर्घत्वे च उवादेशे कृते सिद्धमिति । तत्र यदेव सम्भवति तदेव दर्शितमिति न तु क्रमः । किञ्च उन्दिप्रभृतेश्च द्विर्वचनद्वये यथेष्टमनिष्टं फलमस्ति ।
टीकायान्तु ईयटिषतीति दीर्घादिपाठो दृश्यते, तन्मते व्याख्ययाः सोऽपि छेदनीय इति । यद् वा समानलक्षणदीर्घत्वे इयादेश इति यत् टीकापञ्जिकाभ्यामुक्तम् । ततः क्रमेण ह्रस्व एवोक्तस्तदपि नैव यदेव सम्भवति तदेव दर्शितम्, न तु क्रमेण कार्यं कर्तव्यमिति । कथमन्यथा दीर्घ इणः परोक्षायामगुणे इयादेशे समानलक्षणे दीर्घत्वे सिद्धे इयो बाधकं षत्वं स्यादिति वचनम् इत्युक्तम् । तत्रापि पञ्ज्याम् अचीकरदिति द्विर्वचनम् “इन्यसमानः” (३।५।४४) इत्यादिना ह्रस्वत्वमित्युक्तम् | अन्यथा द्विर्वचनह्रस्वयोः प्राप्तयोः परत्वाद् ह्रस्व इति वक्ष्यति । केचिद् आचक्षते - पञ्ज्याम् इयटिषतीति ह्रस्वादिरेव पाठो दृश्यते, टीकायां च ह्रस्वादिपाठः करणीयः । समानलक्षणदीर्घत्वे इयादेश इत्युक्तत्वाद् ओणेश्च उवोणिषतीति ह्रस्वादिरेव पाठः । दुर्गवाक्ये तु आद्यद्वितीययीः क्रमेण द्विर्वचने हस्वत्वे समानलक्षणदीर्घत्वे इयादेशे च रूपम् इत्युक्तत्वाच्च । तर्हि इदमपि वचनमन्तरेण स्यादिति वचनात् पूर्वस्य बाधकमिति नोक्तम् । यस्माद् उन्दिप्रभृतेश्च द्विर्वचनद्वयेनानिष्टफलमस्तीति सर्वव्याकरणसिद्धान्तमाह एवं तर्हीत्यादि । पूर्व तु कक्षानवतारे द्विर्वचनसामर्थ्यमुक्तमित्यदोषः। व्यक्तिव्याख्यानस्य कारणं “न नबदराः संयोगादयोऽये” (३+३ | ३) इति वचनम् । अन्यथा यदि आद्यस्य द्विर्वचने यो द्वितीयस्तस्यैव द्विर्वचनम्, तदा द्वितीयावयवसम्बन्धिनामादिभूतानां नबदराणां क्व सम्भव इति ।
-