________________
तत्रपाकरणम् प्रतिषेधोऽर्थवान् स्यात् । एतदेव वक्ष्यति स्वरादाद्याद् द्वितीयोऽवयवो वचनाद् गम्यते इति । तेन द्वितीयावयवसम्बन्धिनो व्यजनस्य द्विर्वचनं न विरुध्यते।
आशिशदिति ।अशेर्हेताविन्, ततोऽद्यतन्या दिः।"श्विसमिकास्तिान्तेभ्यश्वम्" (३।२।२६) इति कृते "चपरोवा०" (३।३।७) इत्यादिना शिशब्दस्य द्विवचनम्, कारितलोपः, तथा अयट्यते इति । प्रभृतिभ्यश्चेति । वचनाद् अटेर्यशब्दे कृते ट्यशब्दस्य द्विवचनम् । अभ्यासलोपे "दीनागमस्य" (३।३।२९) इति दीर्घः। अरिरिषति । अर्तेः सन् “स्मिङ्पू" (३।७।११) इत्यादिना इटि कृते गुणे च रिशब्दस्य द्विवचनम् । आटतुरिति । इह द्वितीयोऽवयवः प्रत्ययस्वरेणैकस्वरो न धातोरिति प्रत्युदाहियते, तेनाद्यस्यैव द्विवचनं भवति । अथ द्वितीयग्रहणं किमर्थं तृतीयादेर्मा भूत् ?तथाहि स्वर एवादिर्यस्यासौ स्वरादिस्तस्य स्वरादे_तोर्दिवचनमित्युक्ते तृतीयस्यापि द्विवचनं प्रसज्येत, ततः 'अटिषिषति' इत्यनिष्टरूपं स्यात् ? तदयुक्तम्, स्वरश्वासावादिश्चेति कर्मधारये कृते स्वरादेरिति पञ्चमी भविष्यति । ततः 'पाया निर्दिष्टे परस्य' (कात० प० २२) इत्यादिभूतात् स्वरात् परस्यानन्तरस्य द्वितीयस्यैव भविष्यतीत्याह-स्वरादेरित्यादि सुगमम् ।।४९९।
[वि० टी०]
स्वरादेः । स्वरादेरिति किमित्यादि । द्वितीयस्येत्युक्ते यत्रैकस्वरस्यायस्य द्वितीयस्य च सम्भवस्तत्र द्वितीयस्यैव द्विर्वचनं स्यात् ।तदा जागृधातोरपि द्वितीयस्यैव द्विर्वचनमिति स्यात् । पूर्वसूत्रन्तु एकस्वरधातुष्वेव प्रवृत्तं स्यात् । ततश्च तत्राद्यैकस्वरस्येत्यनेन किमेकस्वरधातोःसमुदायस्यैव द्विर्वचनं क्रियते,नैवम् ।स्वरादेरित्यस्याभावे द्वितीयस्येत्युक्ते
आद्यस्य द्वितीयस्य चैकत्र द्विवचनसम्भवे व्यञ्जनादीनामस्य विषयः स्वरादीनान्तस्य विषयः इत्यपि स्यात् । स्वरादीनां घातूनां पुनराधस्य द्विवचनं न भक्तु न समुदायस्य । एवं तत्राद्यस्य ग्रहणमुक्तम् । स्वरादेरिति । कर्मधारयादिति । ननु द्वितीयग्रहणाभावे स्वरादेरिति किमियं बहुव्रीहौ धातुसमानाधिकरणात् षष्ठी, उत कर्मधारयात् पञ्चमी ? पूर्वपक्षेऽनाद्यारम्भे ततीयस्यपि प्राप्नोति तदा 'अटिषिषति' इत्यनिष्टरूपं स्यादिति द्वितीयग्रहणम् ? कथमुक्तं स्वरादेरिति कर्मधारयात् सिध्यतीति ? नैवम्, बहुव्रीहिपक्षेऽपि द्वितीयग्रहणाभावे न दूषणम्, यतोऽनाद्यस्य द्विर्वचनं भवद् आद्यस्य द्विवचनाभावे आद्यसमीपस्य द्वितीयस्यैव भविष्यति । उभयपक्षेऽपि दूषणाभावे सुखप्रतिपत्तिहेतुकम् । एकं कर्मधारयपक्षमलोक्योक्तमिदमित्यदोषः।
__ अथवा द्वितीयस्य धातोरवयवस्य विशेषणम्, स्वरादेरिति चावयवस्य विशेषणं न तु धातोरिति, ततः कर्मधारयात् पञ्चमी युज्यते । द्वितीयग्रहणेऽस्थितेऽत्र बहुव्रीहावपि