________________
तृतीये आख्याताध्याये तृतीयो विवनपादः
'अटिषिषति' इत्यनिष्टं स्यादिति द्वितीयग्रहणं युक्तम्, व्याख्यानतो विशेषार्थप्रतिपत्तेरिति मनसि कृत्वाह - स्वरादेरित्यादि। कर्मधारयादेव पञ्चमी 'पञ्चम्या निर्दिष्टे परस्य' (कात० प० २२) इति व्यवहितस्य तृतीयस्य न भवतीत्याह - द्वितीयेत्यादि । लक्ष्यप्रधानत्वाल्लक्षणस्येति भावः ॥४९९।
[वि० प०]
स्वरादेः पूर्वेणाद्यस्य द्विर्वचने प्राप्ते सत्यनेन द्वितीयस्य द्विर्वचनं विधीयते । ततो 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधकः' (व्या० परि० वृ० ४२)इत्याह -येनेत्यादि । ननु भिन्नविषयत्वात् कथमयं पूर्वस्य बाधको भवति, न हि देवदत्तस्य शिरोऽभ्यज्यताम् पादश्च' इत्युक्ते पादाभ्यङ्गःशिरोऽभ्यङ्गं बाधते इति । तद्, एवं क्रमानित्यत्वाच्चाद्यस्य द्विर्वचनेन प्राग् भवितव्यम्, तथा च सति यो द्वितीयः स तृतीयो भवतीति निरवकाशतयैवेदं पूर्वस्य बाधकमिति । अथ कृते द्विवचने यो द्वितीयः सोऽस्यावकाश इति ? तदप्ययुक्तम् । अटेराद्यस्य द्विर्वचने व्यञ्जनावशेषः, अनेन पुनर्द्वितीयस्य व्यञ्जनावशेषः । ततोऽकारत्रयस्य "असन्थ्यक्षरयोरस्य तौ तल्लोपश्च"(३।६।४०) इति 'यावत्सम्भवस्तावद्विधिः' (कात० प० ५४) इतिं कृते सति अटिषत्येतद्रूपं स्यात् । एतच्चाप्यन्तरेणाप्येतद् वचनं सिध्यतीत्यनर्थकमेवेदं स्यात् । नैवम्, अटेराद्यस्य द्विर्वचने "सन्यवर्णस्य" (३।३।२६) इतीत्त्वम्, द्वितीयस्याप्येवम् । ततः समानलक्षणदीर्घत्वे "अभ्यासस्यासवणे" (३।४।५६) इतीयादेशे कृते ‘इयटिषति' इत्येतद्रूपं स्यात् । तत् कथमानर्थक्यमिति। अथ 'अभ्यासविकारेष्वपवादो नोत्सर्ग वापते' (कात० प० ६४) इति ज्ञापकादुत्सर्गोऽसन्ध्यक्षरविधिरिति चेत्, सत्यम्, तथापि 'वार्णात् प्राकृतं बलीयः' (कात० प०. ८१) इति न्यायादित्वमेव स्यात् । ...
एवन्तर्हि "स्वरादेर्द्धितीयस्य"(३।३।२) इति व्यक्तिनिर्देशोऽयम्,व्यक्तौ चाद्यस्य द्विर्वचने अन्य एवेदानी द्वितीय इति व्यक्त्यन्तरस्य द्विवचनमनेन न स्यादिति । न चाद्यस्य पश्चाद् द्विवचनमिति वक्तुं युज्यते, 'सकृद्गतो विप्रतिषेधो विधिर्य बाधितं तद् बाधितमेव' (कात० प० ३६) इति न्यायात् । ननु यदि आद्यस्यैकस्वरस्य द्विवचनमनेन बाध्यते तर्हि व्यअनस्याप्याद्यावयवसम्बन्धिनो द्विर्वचनस्य बाधया भवितव्यम्, यतो यथाभूतस्य प्रसङ्गस्तथाभूतस्यैव बाधा भवति, प्रसङ्गश्च व्यञ्जनसहितस्यैवेति । द्वितीयस्य द्विवचने कथमनेकस्वरव्यपदेशिनो व्यञ्जनस्य द्विवचनमिति नैष दोषः । यदयं "न नबदराः संयोगादयोऽये" (३।३।३) इति प्रतिषेधं शास्ति, तद् बोधयतिस्वरादेर्धातोर्यद् व्यञ्जनं स द्वितीयोऽवयव इति । अन्यथा स्वरादेर्द्वितीयस्यावयवस्य द्विर्वचनं विधीयमानं कथमाद्यावयवसम्बन्धिनां न-ब-द- राणां प्रसज्यते, येन