________________
३१२
कातन्त्रव्याकरणम्
कण्डूयादीनां तृतीयस्यापि-कण्डूयितुमिच्छति कडूयियिषति । ईर्ष्णतेर्यिशब्दस्य सनो वा द्विवचनम् - ईय॒ितुमिच्छति । ईयियिषति सनोऽपि - ईष्यिषिषति |नामधातोराद्यस्य द्वितीयस्य तृतीयस्य क्रमेण युगपद् वा - पुत्रीयितुमिच्छति पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति, पुपुतित्रीयियिषति । क्वचिद् द्वितीयतृतीययोरपि-अश्वीयितुमिच्छति अशिश्वीयिषति, अश्वीयियिषति ।।४९९ ।
[दु० टी०]
स्वरादेः । ननु च विरोधे बाधा स्यात्, अत्र त्वविरोधो भिन्नविषयत्वात् । यथा देवदत्तस्य शिरोऽभ्यज्यताम् पादश्चेति । न हि पादाभ्यङ्गः शिरोऽभ्यङ्गं बाधते ? सत्यम् । क्रमानित्यत्वाच्चाद्यस्य द्विवचने कृते द्वितीयतृतीययोर्भवति निरवकाशं द्वितीयद्विर्वचनम् । अथ कृते द्विवचने यो द्वितीयस्तस्य भविष्यति । ननु च अटेराद्यस्य द्विर्वचने व्यञ्जनावशेषो द्वितीयस्य द्विवचने व्यञ्जनावशेषस्तस्याकारत्रयस्य "असन्थ्यक्षरयोस्स्य तौ तल्लोपश्च" (३।६।४०) इति 'अटिषति' इत्यतद्रूपं स्याद् इत्यनर्थकं वचनमिदम् । नैवम्, अटेः प्रथमस्य द्विवचनं "सन्यवर्णस्य" (३।३।२६) इतीत्त्वम्, तथा द्वितीयस्याप्येवम् । ततःसमानदीर्घत्वे "अभ्यासस्यासवणे"(३।४।५६) इति इयादेशे ‘इयटिषति' इत्येतद्रूपं स्यात् । ओणेश्च उवोणिषतीति अभ्यासविकारेष्वपि 'वार्णात् प्राकृतं बलीयः' (कात० प० ८१) इति पक्षमाश्रित्येदमुच्यते ।
एवमपि व्यक्तिपदार्थे इह ततोऽन्य एव द्वितीय इति न दोषः । सत्यपि सम्भवे बाधनं भवति – 'दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्याय' इति दीयताम् इतीह गम्यते, एकवाक्यतापक्षे तु साधनं भिद्यते, क्रिया पुनरेकैव । एवमिहापि द्वितीयद्विवचनम् आद्यद्विर्वचनं बाधिष्यते पूर्वयोगे वाऽनभ्यासस्येति धातोर्विशेषणं यदि तर्हि आद्यस्यैकस्वरस्य द्विर्वचनं बाध्यते ततो यथाभूतस्य प्रसङ्गः, तथाभूतस्यैव निवृत्तिरिति कथं व्यञ्जनस्य द्विर्वचनम् ? सत्यम्, अप्राप्त्यनुमानबाधेनैव हि क्वचित् प्राप्तस्य निवृत्तिः क्रियते । तत्र स्वरादेर्दितीय-द्विर्वचनविधानाद् आद्यद्विर्वचनं नास्तीति अनुमीयते, व्यञ्जनानि तु नटभाविद् रङ्गगता यस्य यस्य कार्यमुच्यते तं तं भजन्ते इति लिङ्गं चात्र "न नबदराः" (३।३।३) इति प्रतिषेध एव ।
ननु द्वितीस्याभावे आद्यस्य द्विर्वचनं न प्राप्नोति व्यावृत्तत्वात् । आटतुः, आटुः । नात्र "स्वरादेः" (३।३।२) इति स्वरादिसामान्यं निर्दिश्यते, किन्तर्हि स्वरादिव्यक्तिस्तेन य एव द्वितीयवान् स्वरादिः स एवैको निर्दिष्टो नान्य इति, यत्रैव द्वितीयद्विर्वचनं तत्रैवाद्यनिवृत्त्या भवितव्यम् । स्वरादेरिति किमियं बहुव्रीहे : षष्ठी धातुसमानाधिकरणात्, उत कर्मधारयात् पञ्चमी । बहुव्रीहे : षष्ठी चेद् अनाद्यारम्भे तृतीयस्यापि प्राप्नोति