________________
३०६
कातन्त्रव्याकरणम् वचनग्रहणे खण्ड्यमाने एवमर्थविवक्षया तद्वाराभिधायी सुन्प्रत्ययोऽपि नैव कृतः स्यादित्यर्थः तथा च सूत्रकृता गम्यमानवाराभिधानेऽपि "गणना हस्वोपषाः स्वरे द्विः" (१।४।७) इत्यत्र सुच् कृत इति । ननु यदि द्वे रूपे भवतः इत्यर्थे स्थानित्वाशङ्का, आशङ्का चातत्त्वेन ज्ञानम् ।तन्निरासार्थं वचनग्रहणम्, तदा घत्वकारितलोपप्रतिपत्तिगौरवं स्याद् इत्युत्तरग्रन्थः कथं संगच्छते ? सत्यम् । तत्र वैयकारिका
पदैकदृष्टौ वचनग्रहस्य फलोक्तिवाक्ये यदगादि वृत्तौ । स्थानित्वशङ्केत्युभयं तदेकदेशस्वरूपो न च कोऽपि धातुः॥ स्थानित्वक्लृप्त्यापि च पूर्व एव त्वभ्यासबुद्ध्याभ्युपगम्य कार्यम् ।
पत्वेनप्रक्लृप्तिप्रतिपत्तिकष्टमुक्तं पुनः प्रागविशेषवस्तु ॥ इति । पूर्वोक्तचोद्यमेव वक्ष्यमाणसिद्धान्तसङ्गतौ शङ्कितः शङ्खव कीदृशीति निश्चेतुमाह-पदैकेत्यादि |अस्याः -द्वे इति पदैकदृष्टौ वृत्तौ वचनग्रहणस्य फलोक्तिवाक्ये स्थानित्वाशङ्केति यदगादि । तथा च ‘इन्हन्' इत्येकदेशस्वरूपोभयमध्ये कोऽपि न धातुरित्येव शङ्का तत्र यदि त्वङ्गीकुरुषे स्थानिवद्भावः प्रतिषिद्धः एवास्ति का तत्र शङ्केति यदगादि तथापि प्रतिपत्तिगौरवं स्यात् । तदेव प्रतिपादयितुमाह - स्थानित्वक्लृप्त्या इत्यादि । अस्याः- स्थानित्वकल्पनेनापि पूर्वभागेऽभ्यासबुद्ध्या अभ्यासाच्चेत्यनेन कार्यमभ्युपगम्य घत्वेन्प्रक्लृप्तिप्रतिपत्तिकष्टमित्युक्तम्, पुनःप्रागविशेषतःइति पूर्वोऽभ्यासः इत्यादि विशेषो नोक्त इत्यर्थः । एवं टेरेव लोपः कथं न स्यात् – इत्याद्यपि प्रतिपत्तिकष्टं बोद्धव्यम् अत इदं चिन्त्यते । ननु स्थानित्वाशङ्केति कथमुक्तम् ? शङ्का ह्येवात्रातत्त्वेन ज्ञानमित्युक्तम्, ततः स्थानित्वाशङ्केति वक्तुं युज्यते स्थानित्वे ह्यस्थानिज्ञानमेव शङ्का यथा शुक्तौ रजतशङ्का , न च शुक्तिशङ्का इत्युच्यते । स्वरग्रहणं दीर्घोऽनुवर्तते इति शङ्कानिरासार्थमित्यत्र हि अदीर्घानुवर्तने शङ्का युज्यते वक्तुम् । तस्मादत्र शङ्कापदेन ज्ञानमुच्यते भ्रमज्ञानस्य ज्ञानरूपत्वात् । ततः स्थानित्वाशङ्कानिरासार्थमिति स्थानित्वज्ञानाभावनिरासार्थमित्यर्थः । तथा च तस्माद् घत्वं कारितलोपं च प्रति स्थानित्वं कस्येति या आशङ्का तस्या निरासार्थमिति पनी । अनेन स्थानित्वज्ञानाभाव आयात इति तदा स्थानिवद्भावेन घत्वकारितप्रतिपत्तिगौरवं स्यादिति सुतरां संगच्छते इति (सुधियां बुद्धिसिद्धमत्रे समर्पितम्, कुतःखलकालाशीविषदुर्मुखफणातीव्राघातजातैर्विकलितं भविष्यतीति)। तेनोच्चारणस्यैव द्वित्वमिति ।
ननु यदि उच्चारणस्य द्वित्वं तत्कथमपरो हनिति लिख्यते, नैवम् । विनापि द्विर्लेखनेनोच्चारणस्य द्वित्वं न प्रतीयते अपरो हन् लिख्यते इति हेमकरः।