________________
तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः
३०५
[बि० टी०]
नमो गणेशाय । द्विर्वचनम् । अधिकारसूत्रमिदम् । वक्ष्यमाणार्थसंक्षेपाय कार्यिकार्यनिमित्तानां यदुदीरणं सोऽधिकारः । तथा च -
कार्यिकार्यनिमित्तानां पदानां यदुदीरणम् । वक्ष्यमाणार्थ संक्षेपायाधिकारः स उच्यते ।।
स्वस्मिन् सूत्रे फलशून्यत्वे सति परत्र सूत्रे फलसम्बन्धत्वमधिकारत्वमिति केचित् । तन्न, एकदेशाधिकारव्यभिचारात् स्वस्मिन्नेव द्विर्वचनाधिकारफलत्वे फलशून्यत्वाभावानुपपत्तेः । स चाधिकारो द्विविधः - सूत्रैकदेशभेदात् क्वचित् परार्थः, स्वार्थपरश्च क्वचित् । परार्थश्चायमेव । ( स्वार्थपरार्थो यथा ) “अकारो दीर्घ घोषवति” (२|१|१४ ) इत्यादावकाराद्येकदेशाधिकार उभयार्थ इति । ननु विधिरयं सामान्यप्रत्यये कथन्न स्यात् चेत् “चणपरोक्षाचेक्रीयितसनन्तेषु" (३।३।७) इत्यस्यानर्थक्यमिति, नैवम् । नियमार्थं भविष्यति । यथा असार्वधातुकमध्ये चण्परोक्षाचेक्रीयितसनन्तेष्वेव द्विर्वचनमिति । " जुहोत्यादीनां सार्वधातुके" ( ३।३।८) इत्यत्रादादिकानां मध्ये जुहोत्यादीनामेव सार्वधातुक इति । नैवम्, 'विधिनियमसम्भवे विधिरेव ज्यायान्' (कात० प० ८४ ) इत्यतोऽधिकारोऽयं न विधिरित्यर्थः । किं च यदि “ चणपरोक्षाचेक्रीयित०” (३।३।७) इति नियमेऽसार्वधातुके न द्विर्वचनम्, तदा " जुहोत्यादीनां सार्वधातुके" (३।३।८) इति सार्वधातुकग्रहणमनर्थकं स्यादिति । वचनग्रहणमित्यादि ।
ननु वचनग्रहणाभावे द्वे इत्युच्यताम् इति कथम् उक्तम्, द्विरिति कथं नोक्तम् ? सत्यम् | अत्र पण्डितवार्त्तिकमेतत् -
निपातनस्येष्टतया ब्रवीति शब्दो द्वितोक्तेः सुजयन्तु वारम् । अध्याहृतौ तेन सुचोऽप्रयोगः स्वाभाविकी शक्तिरुदीरिता वा ॥
अस्यार्थः - अयं सुच्शब्दो द्वितोक्तेर्वारं ब्रवीति कुत इत्याह- निपातनस्येष्टतयेति । तेन कारणेनाध्याहृतौ सुचः प्रयोगो न भवति । यथा “द्विर्भावं स्वरपरश्छकारः ' (१।५।१८) इति, तन्न चारु । तदा कथं द्विश्छः, सुसन्निकर्षे इत्यत्र भवति । तेनाध्याहृतौ सुचः प्रयोगो भवत्येव । अथवा अध्याहारे न भवतीति स्वाभाविकी शक्तिः कथितेत्यपरे । कश्चित् तु द्विर्वचनं भवतीत्यस्य द्वे उक्ती भवत इति तात्पर्यार्थः । तदवलम्ब्य द्वे इत्युच्यताम् इत्युक्तम् । द्विरुक्तेऽपि तदेव दूषणम्, तथा हि धातोरवयवस्य स्थाने द्विर्वचनं द्विरूपं वा भवतीति, तदेव युक्तमुत्पश्यामः इत्याह- तस्मिंश्च सति तद्वाराभिधायी सुच्प्रत्ययोऽपि न कृतो भवतीति । तस्मिंश्चार्थे क्रियमाणे सतीत्यर्थः । अथवा अस्मिन्