________________
३०४
कातन्त्रव्याकरणम्
तथेति । अकृच्छ्रे प्रियसुखयोर्वा दृश्यते । अत्राधर्मानृतादिवन्नञ् विपक्षे वर्तते । कृच्छ्रं प्रयासः प्राणिनो धर्मस्तद्विपक्षोऽकृच्छ्रं सोऽपि प्राणिनो धर्म एव । यस्मिन् सति प्रयासमन्तरेणैव दानादिक्रियां करोति, तस्मिन्नकृच्छ्रे प्राणिधर्मे वर्तमानयोः प्रियसुखयोर्वा द्विर्वचनमित्यर्थः । पक्षे प्रियेण ददाति, सुखेन पश्यति । विना प्रयासेनेत्यर्थः । अकृच्छ्र इति किम् ? प्रियः पुत्रः, सुखो रथः । नात्र कृच्छ्रविपर्यये प्राणिधर्मविषये प्रियसुखशब्दौ किन्तर्हि द्रव्ययोः पुत्ररथयोर्वर्तते । पुत्रो हि प्रीणातीति प्रियः, सुखहेतुत्वाच्च सुखो रथः इति ।
अप्राणिविषय एवेति अप्राणीत्यनेनाद्रव्यं लक्ष्यते - अद्रव्यविषय एवेत्यर्थः । अद्रव्यविषयता तु प्राणिधर्मवृत्तित्वादनयोरिति । तथाऽन्येऽप्यनुसर्तव्या इति । सम्भ्रमे यावद्बोधं सम्भ्रमश्चाशु प्रतिपादनार्थं प्रयोक्तुः स्मरणं तस्मिन् द्योत्ये यावता पदेन यावता वाक्येन वा बोधो गम्यते तावतो द्विर्वचनमित्यर्थः । यथा - अहिरहि:, बुध्यस्व बुध्यस्व, हस्त्यागच्छति हस्त्यागच्छति, लघु पलायध्वं लघु पलायध्वमिति । तथा नानावधारणानुपूर्व्याधिक्येऽपि दृश्यते । तत्र नानावधारणं नानाभूतानां पदार्थानां भेदेनेयत्तापरिच्छेदः । तद् यथा अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि । प्रत्येकं माषमात्रं दातव्यम्, नाधिकमित्यर्थः । इह कार्षापणसम्बन्धिनो माषाः साकल्येन दातुमिष्टा इति न वीप्सास्ति, नानाग्रहणादिह न भवति । अस्मात् कार्षापणादिह भवद्भ्यां माषं कार्षापणं देहीति एकमेवार्थः । अवधारणादन्यत्र न भवति । इह भवद्भ्यां माषं देहि, द्वौ त्रीन् वा देहीत्यर्थः । आनुपूर्व्यं क्रमानुल्लङ्घनं मूले मूलं स्थूलाः, अग्रे अग्रे सूक्ष्माः, ज्येष्ठं ज्येष्ठमनुप्रवेशय मूलाद्यानुपूर्व्येणैषां स्थौल्यादयः इत्यर्थः । आधिक्यं प्रकर्षः, नमो नमः शिवाय, दर्शनीया दर्शनीया कन्या । यथास्वे यथायथम् | यो यदात्मक इत्यर्थे यथायथमित्यर्थः । एवमन्येऽपि शिष्टप्रयोगानुसारेण बेदितव्याः । तथा चोपसर्गाणां प्रसमुपोदां पादपूरणे दृश्यते -
प्रप्रपूज्य महादेवं संसंयम्य मनः सदा ।
उपोपहाय संसर्गमुदुद्गतः स तापसः ॥
इति तमादयः पश्चात् “ आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्य एव तराम् तमाम्” (२ । ६ । ४०१ ) इति तमादौ पठ्यते । तथेति डाच्प्रत्ययविषयेऽव्यक्तानुकरणस्य द्विर्वचनमित्यर्थः । अपटत् पटत् करोतीति विगृह्य डाचि विषये द्विर्वचनम् । ततः “अव्यक्तानुकरणादनेकस्वरादनितौ डाच्” (२।६।४०-२२), अभ्यासतकारलोपस्तमादित्वात्, अन्त्यस्वरादिलोपस्तु डानुबन्धेऽस्त्येव पटपटायते इति डाजन्तादायि: ।। ४९८ ।