________________
३०३
तृतीये आख्यातायाये .तृतीयो द्विवनपादः अभ्यासस्यावशेषः "निजिविजिविशां गुणः सार्वधातुके" (३।३।२३) इति गुणः, अन उस् । “सिजभ्यस्तविदादिभ्योऽभुवः" इति अन उस् । अथेह समुदायस्य कथं द्विवचनम् ? एकस्वरत्वादवयवानामपि प्राप्नोति, तथाहि यथा निशब्द एकस्वरस्तथा निशब्द इजशब्दोऽपि व्यपदेशिवभावाद् इकारोऽपि ? सत्यम् । न तावदिकारस्य इञ्शब्दस्य वा द्विर्वचनम्, अनेकस्वरत्वादनाद्यत्वाच्च व्यपदेशिवद्भावेनाद्यत्वमस्तीति चेत् तदयुक्तम्, न खलु सर्वत्र व्यपदेशिवद्भावोऽस्तीति, जागृप्रभृतीनामपि आकारस्य गृशब्दस्य वा कस्मान्न द्विवचनम् इत्यपि चोद्यम् आद्रियताम्, व्यपदेशिवद्भावस्य मुख्याभावे सत्यभ्युपगमाद् इहैकस्वर आद्यश्च निजशब्द एव मुख्यो विद्यते इति ।
ननु तत्र व्यपदेशिवद्भावान्न द्विवचनम्, तत्रैव आबैकस्वरो मुख्य इति सिद्धान्ते ऽनेकस्वरधातुष्वेवमेवमुक्तम् । यथा 'जजागार' इति एकस्वरेष्वपि व्यपदेशिवभावाद् द्विवचनम् । अतोऽवयवानामपि स्यादित्याह- अथवेति । अथवा अनिष्टमेव रूपं स्याद् इति इकार इज्शब्दश्च न द्विरुच्यते, तथा निशब्दस्यापि न द्विवचनम् । तथाहि "बयमभ्यस्तम्"(३।३।५)इति द्विरुक्तस्यैवाभ्यस्तसंज्ञाविधानाज्जकारोनाभ्यस्तग्रहणेन गृह्यते अद्विरुक्तत्वात् । अतस्तेनाभ्यस्तस्य व्यवहितत्वाद् अन उसादेशो न स्यात् । ___अथ विशेषाभावादनिष्टमेव रूपं भवेद् इति चेत् तदयुक्तम्, अवयवा हि द्विरुच्यमाना अनवस्थाचोद्यमापद्यन्ते, यावदस्य द्विवचनं तावदेतस्य कथन्न भवतीति समुदायस्य तु द्विर्वचने सर्वत्रावयवा द्विरुक्ता भवन्ति समुदायव्यापारेऽवयवानामपि व्यापारोपलब्धः। यथा वृक्षः प्रचलन् सहावयवैरेव प्रचलतीति सर्वं समञ्जसमित्याह - समुदायस्येत्यादि । समुदायस्त्वाद्यो न भवति अनाद्यस्याभावादिति व्यपदेशिवभाव उच्यते । एतेनैकस्वराणांधातूनां समुदायःएवं द्विर्वक्तव्यः,व्यपदेशिवद्भावेनाद्यत्वोपपत्तेरिति दर्शितम्, अत एव पपाच,जुहोति' इत्युदाहृतम् |कथमित्यादि ? बहूनां सजातीयानामर्थानां क्रियागुणद्रव्यैर्युगपत् प्रयोक्ताप्तुमिच्छा वीप्सा, तस्यां गम्यमानायां द्विवचनं लोकत एव सिद्धम्, ततः किं विशेषवचनेनेति भावः । तथेति, लोकोपचारादित्यर्थः । पक्षे परि त्रिगर्तेभ्यो वृष्टो देवः' इत्यपि भवति । कृतद्विर्वचनैरुपर्यादिभिस्त्रिभिर्योगे कर्मप्रवचनीयाभ्युपगमाद् ग्राममिति द्वितीया। सामीप्य एवेति । किम् उपरि चन्द्रमाः, कथम् उपरि शिरसो घटः इत्यौत्तराधर्यमानं विवक्षितम्, न तु सामीप्यमिति न दोषः । सति सम्भवे इति । यथासम्भवमित्यर्थः ।
इह तु द्विवचनमेव न पुंवद्भावः । हा प्रिया मे गतगता, नष्टनष्टा इति । पुंवद्भावोऽपीति ।अपिशब्देनादेविभक्तेर्लोप आख्यायते । एवमन्यत्रापि अगुणवचनस्यापि इत्यनेन “प्रकारे गुणवचनस्य" (अ०८।१।१२) इति पत्रसूत्रस्य व्यभिचारं दर्शयति