________________
३०२
कातन्त्रव्याकरणम्
उपधाया दीर्घत्वम्, अद्यतन्या दि, "श्रिद्धसु०" (३।२।२६) इत्यादिना चण, पूर्ववत् "स्वरादेर्द्वितीयस्य" (३।३।२) इति टिशब्दस्य द्विवचनम् कारितलोपः अनम्यासस्येत्यादि । __"गुप्रतिकिम्यः सन्"(३।२।२)इति सनि कृते द्विवचने पुनर्जुगुप्सितुमिच्छतीति तुमन्तात् सन् ।तथा अत्यर्थं भवतीति "पातोर्यशब्द०"(३।२।१४) इत्यादिना यप्रत्यये कृते पूर्ववद् द्विवचनम् । "गुणश्चक्रीयिते" (३।३।२८) इति गुणः, "द्वितीयचतुर्थयोः प्रथमतृतीयो" (३।३।११) इति भकारस्य बकारस्ततो बोभूयितुम् इच्छतीति सन्, निमित्तं निमित्तं प्रति वीप्सायामव्ययीभावः । संश्चेक्रीयितयोढिर्वचने कृते पुनः सनि निमित्ते द्विर्वचनं न स्यादित्यर्थः । एकस्वरस्येत्यादि । एकः स्वरो यस्य स एकस्वर इत्यवयवेन विग्रहः । स्वरव्यञ्जनसमुदायः समासार्थः, अवयवश्च समुदायेऽन्तर्भवतीति स्वरव्यञ्जनस्यैकस्वरस्य द्विर्वचनं सिद्धम्, बहुव्रीहिं च प्रति लिङ्गं चिह्नमित्यर्थः, अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्, शिट्परोऽघोष इति च । अन्यथा एकश्चासौ स्वरश्चेति कर्मधारये स्वरमात्रस्यैव द्विवचनमिति कथमभ्यासे व्यञ्जनावशेषो युज्यते । यद्येवम्, इणप्रभृतीनां धातूनां सस्वरमात्रत्वादनाद्यत्वाच्च द्विर्वचनं न सिध्यतीत्याह-कथम् ‘इयाय, आर' इति । 'इण गतौ' (२।१३), परोक्षाया अट्, वृद्धेः स्वरविधित्वात् पूर्व द्विवचनम्, ततो वृद्धिः, "ऐ आय" (१।२।१३) ऐकारस्यायादेशः। “अभ्यासस्यासवर्षे" (३।४।५६) इत्यभ्यासेकारस्येयादेशः आरेति । ' स गतौ' (२७४), पूर्ववद् अटि, ऋकारस्य द्विवचनम्, ऋवर्णस्याकारः, “अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घत्वम्, धातोर्वृद्धिरार्, दीर्घात् परलोपः।
परिहारमाह- एकस्यापीत्यादि । अत्रैकस्वरत्वम् आद्यत्वं च व्यपदिश्यते, व्यपदेशिवभावश्च लोकतः एव सिद्धः। यथा 'राहो शिरः, शिलापुत्रस्य शरीरम्' इति । तत्र च व्यपदेशिवद्भावे दीर्घ इणः परोक्षायामगुणे “अर्तिपिपोश्च" (३।३।२५) इति लिङ्गम् ; अन्यथा कथम् अभ्यासे दीर्घत्वादिविधानम् इणादिधातोरुपपद्यते इति भावः। एतेन व्यपदेशिवभावनिबन्धनस्यैकस्वरस्याद्यस्य गौणत्वान्न द्विवचनमिति चोद्यमपास्तमिति । तथेति व्यपदेशिवद्भावाद् इत्यर्थः । अत्रैकस्वरत्वमस्त्येव समुदायस्य केवलम् आद्यत्वं न विद्यते इति व्यपदेशिवद्भाव उच्यते । आटेति । 'अट गतौ' (१।१०२) परोक्षाया अट्, द्विर्वचनम्, अभ्यासस्यावशेषे कृते "अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घः, “अस्योपधायाः" (३।६।५) इत्यादिना च धातोरुपधाया दीर्घत्वम्, ततः पुनः समानदीर्घत्वम् । अनेनिजुरिति । "निजिर शौचपोषणयोः" (२।८१) इति शस्तन्यन्, अडागमः, अदादित्वाद् विकरणस्य लुक्, जुहोत्यादित्वाद् द्विवचनम्,