________________
तृतीये आख्याताभ्याये तृतीयो द्विवनपादः
३०७ उच्चार्यमाणस्यावयवस्येति हनहनद्वयस्यावयवस्येत्यर्थः । स हि स्वेन रूपेणावस्थित इति नित्यपक्षे बोद्धव्यम्, कार्यपक्षे प्रक्रियावशादित्यर्थः एकस्यापि स्वरस्याद्यन्तवदुपचारादिति । ननु आद्यन्तवदुपचाराद् व्यपदेशिवद्भावो भिन्नोऽभिन्नो वा, यदि भिन्नस्तदा पज्यां व्यपदेशिवद्भावादाद्यत्वम् एकस्वरत्वादिति कथमुक्तम्, वृत्तावाद्यन्तवदुपचाराद् इत्युक्तत्वाद् यदि चाभिन्न इत्युच्यते, तदैकस्मिन्नाद्यन्तवद् भवति कथमेकस्वरत्वम् ? सत्यम्, भिन्न एव, किन्तु तन्मूलकमिदम् । आद्यन्तवदेकस्मिन्निति यतो व्यपदेशिवद्भावोऽस्ति, तस्माद् आद्यन्तवदेकस्मिन्नित्युच्यते, ननु कोऽर्थो व्यपदेशिवद्भावस्य, येन व्यपदेशिवद्भावाद् आद्यन्तवदेकस्मिन्नित्युच्यते ? सत्यम् ।तत्र कश्चिदाचष्टे- व्यपदिश्यते समुदायोऽस्मिन्निति व्यपदेशोऽवयवः सोऽस्यास्तीति व्यपदेशी अवयवी, व्यपदेशीव व्यपदेशिवत तस्य भावो व्यपदेशिवद्भावः इत्यर्थः । अवयविवभावादाद्यन्तवदेकस्मिन्नित्यर्थः।
अन्ये पुनर्व्यपदेश आरोप उच्यते, सोऽस्यास्तीति व्यपदेशी आरोपी, स इव, तस्य भावः व्यपदेशिवभावः। यथा 'सिंहो माणवकः' इत्यत्र माणवकः सिंहारोपवान्, तद्वदयमप्यभेदबुद्ध्या कस्यचिदारोपेण युक्त इत्यर्थः । एकस्याप्याद्यन्तवद्भावे एकोऽयं हेतुरिति कश्चिद् एकस्याप्याद्यन्तवद्भाव इति उपचाराद् व्यपदेशिवद्भावरूपादित्यन्ये। तथा अनेनिजुरित्यादि । नन्वत्र निशब्द आद्य एकस्वरो मुख्यो विद्यते जागृप्रभृतिवत् । तत् कथमत्र व्यपदेशिवद्भाव उच्यते । तथा च पञ्यामुक्तम् - व्यपदेशिवद्भावस्य मुख्याभावेसति अभ्युपगमादिति ।नैवम्, आद्यशब्दोऽनाद्यव्यावर्तकः । ततश्चाद्यस्यैकस्वरस्य भवति, अनाद्यस्य न भवति इत्यनेनाद्यस्यैकस्वरस्य व्यावृत्तेरभावात् कथं मुख्यस्य संभव इति व्यपदेशिवद्भाव उच्यते । तथा च वैयकारिका
आयग्रहो नायनिवर्तकोऽत्र स्वरान्तरं चावयवस्य सीमा।
इत्थं पचः पस्य निजो न नेश्च द्विर्वाच्यताभूदिति सारभूतम् ॥ अस्यार्थः-अत्राद्यग्रहोऽनाद्यनिवर्तकः,अवयवस्य सीमा स्वरान्तरम्, न व्यञ्जनम् । इत्त्थम् अनेन प्रकारेण पच्-धातोः पस्य पकारस्य निजो नेश्च न द्विर्वाच्यताऽभूदिति सारभूतम् । ननु निजो व्यपदेशिवद्भावेन निज्भागस्याद्यस्यैकस्वरस्य द्विवचनं युज्यते कथं नेरिकारस्य निजभागस्य वा द्विवचनमिति चोद्यम् पत्रिकायाम् ? न च व्यपदेशिवद्भूतस्य निज्धातोराद्यावयव इकारादिरिति । नैवम्,अभिप्रायापरिज्ञानात् । न च निजो व्यपदेशिवद्भावे इकारादिद्विर्वचने चोद्यमुच्यते । अपि तु पृथक् पृथग् व्यपदेशिवद्भाव इति निशब्दस्य व्यपदेशिवद्भावान्निभागस्य व्यपदेशिवद्भावादिशब्दस्य व्यपदेशिवद्भावाद् इकारस्य व्यपदेशिवद्भावादिति । नन्विकारस्य इज्शब्दस्य निधातोरवयवस्य व्यपदेशिवद्भावादाद्यत्वमेकस्वरत्वं यथा, तथा निज्धातोर्नकारापेक्षया इकारस्येज्भागस्यापि