________________
तृतीये आध्याताध्याये तृतीयो द्विवनपादः
२१९
अन्य आह - एकश्चासौ स्वरश्चेति कर्मधारयोऽपीति एकशब्दोऽनेकशक्तिरनेकार्थ इति अस्मिन् दर्शने सत्येकोऽप्यनेकशक्तियुक्तः शक्तिभेदादनेकप्रतिपत्त्यर्थमावर्तते द्वयोर्लिङ्गदर्शनादभ्यासस्यादिळञ्जनमवशेष्यं दीर्घ इणः परोक्षायामिति । एकस्वरत्वादवयवानामपि द्विवचनप्रगङ्गः । अनेनिजुरिति । निशब्दोऽप्यनेकस्वर इति इज्शब्दस्य इकारोऽपि व्यपदेशिवद्भावात् । तत्र इज्शब्दस्य इकारस्य च द्विर्वचनेऽनिष्टरूपं स्यात् । निशब्दस्य द्विर्वचने जकारेण व्यवधानादभ्यस्तादन उस् न स्यात्, अन्तेरनकारश्च न स्यात्, निशब्दस्य द्विवंचने सर्वं युक्तं तदेतत् कथं समुदायद्विर्वचने तदन्तभूतावयवानामेकस्वराणामपि सिद्धं शास्त्रं चाबाधितं भवतीति । ननु च समुदायैक - स्वरस्यापि द्विर्वचने सत्यवयवैकस्वरस्य शास्त्रं हीयतेऽवयवार्थकत्वात् समुदायस्य ? सत्यम्, समुदायव्यापारेऽवयवानामपि व्यापारः । यथा वृक्षः प्रचलन् सहावयवैः प्रचलतीति बहुव्रीहिरयं तद्गुणसंविज्ञानस्तेन धातुपाठे समुदायेऽवयवस्यान्तर्भावान्न व्यञ्जनमात्रस्य द्विर्वचनं भवतीति । द्विरुक्तिर्विचनम् । वे उक्ती भवतः इत्यर्थः । वचनग्रहणे त्वक्रियमाणे सुजपि तद्वाराभिधायी न कर्तव्य इत्यर्थः । ततश्च यथोक्तिशब्दमध्याहृत्य द्वे उक्ती भवत इति वाक्यार्यः, तथा रूपशब्दमध्याहत्याद्यस्यावयवस्य स्थाने द्वे रूपे भवत इत्यपि वाक्यार्थः स्यात्, तदा प्रकृतिभागस्य नष्टत्वाद् अभ्यासाच्चेति हन्तेर्हस्य घत्वं न स्यात् ।
___ तथा आटिटदिति कारितलोपः, द्विर्वचने कृते पश्चात् स्वरविधिरिति । द्विः प्रयोगपक्षे तु स एवायं टिशब्दो द्विरुच्चार्यते इति न दोषः । अथ स्थानिवद्भावात् टिग्रहणेन ग्रहणमस्ति नायमिन आदेशः, किन्तर्हि इनश्चान्यस्य चेति ? सत्यम् । अन्यतरव्यपदेशादिनोऽयमादेशो द्विरूपष्टिशब्द इति विज्ञायते, नान्तर्भूतस्येनोऽनुमीयमानस्य स्थानित्वात् प्रतिपत्तिगौरवं स्याद् इत्याह – वचनग्रहणमित्यादि । तर्हि धातुढेिरुच्यताम्, तथापि वचनग्रहणेन किम् ? सत्यम् । 'सिषेव; सुष्वाप' इति सिवेः स्वपेश्चेयं परोक्षा विहिता, स एवायं सिविः स्वपिश्चेति पदसंज्ञायां सत्यां पदादित्वात् षत्वप्रतिषेधः प्राप्नोतीति विप्रतिपद्येत, वचनग्रहणे तु सत्युच्चारणस्यैव तद् द्वित्वं नोच्चार्यस्य धातोर्धातुरत्रैक एवेति । यद्येवम्, जरीगृहितेति इटो दीर्घो ग्रहेरपरोक्षायां स्यात्, तत्र ग्रहेरितीनिर्देशो धातुस्वरूपग्राहको विरूपान्न भवतीत्यर्थः ।