________________
२९८
कातन्त्रव्याकरणम्
[दु० टी०]
द्विर्वचनम् । “पातोर्यशब्दः०" (३।२।१४) इत्यतो धातुरनुवर्तते इत्याह - धातोरिति । धातुरवयवी आद्योऽवयवः । अवयवावयविसम्बन्धे षष्ठीयमित्याह - अवयवस्येति । न अभ्यासोऽनभ्यासः । अभ्यासस्य द्विवचनं नैव सम्मतमित्यर्थः । एकः स्वरो यस्याद्यस्येति बहुव्रीहिः । यद्येवं 'जजागार, दिदरिद्रासति' इति सिध्यति पचादीनां तु द्विर्वचनं न स्याद् अनाद्यापेक्षत्वादाद्यव्यपदेशस्येति ? सत्यम, व्यपदेशिवद्भावात् । तथा च "जुहोत्यादीनां सार्वधातुके" (३।३।८) इति वचनमाह । स च व्यपदेशिवभावो लोकतः सिद्धः। यथा शिलापुत्रस्य शरीरमिति शिलापुत्रकोऽनेन देशान्तरेऽवस्थान्तरेषु च दृष्टः, स तस्य समानात्मनोऽवस्थाभेदाद् भिन्नमिवानुस्मरन्नत्राध्यवस्यति एकार्थतां सर्वावस्थायां स एवायं शिलापुत्रक इति । एतस्यां बुद्धौ तेनात्मना विष्वग्भूता साम्प्रतिकी या तस्यावस्था व्यपदिश्यते तस्या शिलापुत्रस्येदं शरीरमिति । इयाय, आरेति । अत्र पुनरुभयं व्यपदिश्यते । एकस्वरत्वमाद्यत्वं च 'इतो यन्ति इतवान्' इत्यादिषु संज्ञातेषु अन्तर्भूत एको धातुः इण् गताविति । सर्वे एकप्रयोगगतेनेकार-स्वरूपेण व्यपदिश्यते । एकोऽयं स्वर इति इकारोऽस्येति ।
अथवा स्वरशब्दोऽयं जातौ । स्वरत्वं हि स्वर इति व्यपदिश्यते, तस्य स्वरत्वस्य व्यक्तिद्वारेण विशेषणम् एकशब्देन क्रियते एकव्यक्तिगतं स्वरत्वमस्येति । यथा पचेर्धातोः सर्वविषयस्य यदेकप्रयोगविषयम् एकस्वरत्वरूपं तदवयवः सिद्ध इति । अथवा एकप्रयोगगतस्यैव धातो· अवस्थे अन्वयव्यतिरेकाभ्यां च समुदायापेक्षस्यार्थवत्ता केवलस्यापेक्ष्यमाणस्यानर्थकत्वं वर्णानामनर्थकत्वाद् यदनर्थकस्वरूपम्, तेन समुदायापेक्षं स्वरूपमस्येति व्यपदिश्यते । तथा च ते विद्यमाना बुद्ध्या आश्रीयन्ते । एवम् असन्तोऽपि कल्पनाबुद्ध्या आश्रयरूपा आद्यव्यपदेशहेतवो भवन्तीति नास्ति दोषः । यथा आद्यगर्भेण हतेयम् आद्यागमनमिति आश्रितानुपूर्वाणि आगमनानि बुद्ध्योत्पादितानीति । तथाभूतासु बुद्धिषु उत्पद्यमानासु ये ये तन्निबन्धनाः शब्दा नैते गौणाः । यथा रज्जौ सर्पत्वेनाध्यवसिते सर्व एव हि सर्पशब्दं प्रयुक्त इति । यदि तर्हि न गौणः किमुच्यते व्यपदेशिवभाव इति, वस्तुलक्षणस्यात्मनस्तथाभावाद् वस्तुतस्तथाभूतं न भवतीति व्यपदेशिवद्भाव उच्यते, यः पुनः शब्दादात्मनोऽयमिति, एवं नोपचरितो बुद्धीनां तथानुवृत्तेरिति। योगविभागो वा आद्यस्येत्यपरो योगः नियमार्थोऽयं यत्राद्यश्चास्ति तत्राद्यस्यैकस्वरस्य द्विवचनं यथा स्यादिति । पूर्वसूत्रे पुनरेकस्वर इति बहुव्रीहिणा धातुरुच्यते । य एकस्वरमात्रो धातुस्तत्र व्यपदेशिवभाव एव ।