________________
अथ तृतीये आख्याताध्याये तृतीयो द्विवचनपादः
४९८. द्विवचनमनभ्यासस्यैकस्वरस्यायस्य [३।३।१] [सूत्रार्थ]
धातुसम्बन्धी अनभ्यास, एकस्वरविशिष्ट आद्य अवयव का द्विवचन होता है। द्विर्वचन विधि का अधिकार यहाँ से प्रारम्भ किया गया है। अतः इसे विधि - अधिकार उभयविध सूत्र समझना चाहिए ।।४९८ ।
[दु० वृ०]
धातोरवयवस्यानभ्यासस्यैकस्वरस्याद्यस्य द्विर्वचनं भवतीत्यधिकृतं वेदितव्यम् । पपाच, जुहोति । वचनग्रहणं द्वे रूपे भवत इति स्थानित्वाशङ्कानिरासार्थम् । तेन 'जिघांसति, आटिटत्' इति घत्वकारितलोपप्रतिपत्तिगौरवं स्यात् । अनभ्यासस्येति किम् ? जुगुप्सिषते, बोभूयिषते । प्रतिनिमित्तं द्विरुक्तिर्न स्यात् । एकस्वरस्येति बहुव्रीहिः किम् ? व्यञ्जनेन सह द्विर्वचनार्थम् । तेन दिदरिद्रासति । कथम् इयाय, आर ? एक-स्यापि स्वरस्याद्यन्तवदुपचारात् । तथा आट,अनेनिजुः' ।समुदायस्यापि द्विवचनम् अभ्यस्तकार्यं चेति । कथं वृक्षं वृक्षं परि सिञ्चति, ग्रामो ग्रामो रमणीयः, गृहे गृहे अश्वाः ? वीप्सायां वर्तमानस्य पदस्य लोकत एव द्विरुक्तिः सिद्धा | तथा परि परि त्रिगर्तेभ्यो वृष्टो देवः । परेवर्जने द्योत्ये विभाषैव ।
__ तथा उपर्युपरि ग्रामम्, अधोऽधो नगरम्, अध्यधि स्थापयति । उपर्यधोऽधीनां सामीप्य एव । तथा एकैकं जुहोति । आदेरेकस्य विभक्तेलृक् । तथा ‘हा प्रिया मे गतगता, नष्टनष्टा' । सति सम्भवे पुंवद्भावोऽपि पीडायां गम्यमानायाम् । तथा पटुपटुः, पटुपट्वी, पण्डितपण्डितः, पण्डितपण्डिता, सादृश्ये गुणवचनस्यापि । भीतभीतः, चकितचकितः। तथा प्रियप्रियेण ददाति, सुखसुखेन पश्यति । अप्राणिविषय एव । एवमन्येऽप्यनुसतव्याः। तथा आभीक्ष्ण्ये - पचतिपचतितराम, पचतिपचतितमाम्, गच्छतिगच्छतितराम्, गच्छतिगच्छतितमाम् । तमादयः पश्चात् । तथा डाच्यव्यक्तानुकरणस्य च - पटपटाकरोति, पटपटायते ।।४९८ ।