________________
कातन्त्रव्याकरणम्
,
अधिकृतं वेदितव्यमिति | चण्परोक्षेत्यादिषु विधिवाक्येषु सविशेषणमाचार्येण नियुक्तमित्यर्थः । एकस्वरस्येति कर्मणि षष्ठीयमुच्यमानत्वात् । कथमित्यादि आनुपूर्व्यं च दृश्यते - मूले मूले स्थूलाः, अग्रे अग्रे सूक्ष्मा इति । इदमेव शब्दस्वरूपमस्यार्थस्य वाचकमानुपूर्व्येण मूले स्थूलाः, अग्रे सूक्ष्मा इति । समसम्प्रधारणाविषये च दृश्यते – कतरकतरा अनयोराढ्यता, कतमकतमैषामाढ्यता, सा हि साध्यता साधनकृता प्रयत्नकृता भाग्यसम्पत्कृता च तत्राप्रतिपद्यमानः पृच्छति केयमनयोराढ्येति । कतरकतमोऽनयोर्विभवः, कतमकतम एषां विभवः । डतरडतमाभ्यामन्यत्रापि दृश्यते । स्त्रीवचनाभावेऽस्त्रीवचनाभावेऽपि कीदृशी कीदृशी अनयोर्विभूतिः कीदृश: कीदृशोऽनयोर्विभव इति । उपरि शिरसो घटं धारयतीति औत्तराधर्यमात्रमत्राभिधीयते । ननु सदपि सामीप्यम् उपर्यादीनां सामीप्यवृत्तीनामिति किम् ? उपरिचन्द्रमाः । एकैकं जुहोति, प्रत्येकमित्यर्थः । एवम् एकैकया आहुत्या जुहोति । एकैकस्य, एकैकेषु वीप्सायां द्विर्वचनं सिद्धम् | आदेरेकस्य सम्बन्धिन्या विभक्तेर्लुगाख्यायते । प्रियगमनविनाशादिपीड्यमानेन प्रयोक्त्रा प्रयुज्यमानो गतादिशब्दो द्विर्भावमापद्यते । यो हि पटुसदृशः स पटुपटुरिति यश्च गुणमुक्तवान् यश्च सम्प्रति गुणमाह सर्वत्र द्विर्वचनं सिद्धम् | शुक्लशुक्लोऽयं पटः, शुक्लं शुक्लं रूपमस्येति । प्रियसुखयोरकृच्छ्रे विभाषा दृश्यते । कृच्छ्रं प्रयासः प्राणिनां धर्मः । नञो विपक्षोऽर्थोऽप्रायासेऽप्राणिधर्मे वर्तमानयोरित्याहअप्राणिविषय एवेति । तेन प्रियः पुत्र इष्टः इत्यर्थः । सुखहेतुत्वात् सुखो रथ इति । सम्भ्रमे यावद्बोधं यावद्भिः पदैर्बोधो गम्यते तावतां पदानां द्विर्वचनम् - अहिरहिः, बुध्यस्व बुध्यस्व, यद्ययं न बुध्यते अहं च न बोधयामि ततो नियतं दष्ट वाहिि मन्यमानः सम्भ्रमेण प्रयुङ्क्ते - अहिरहिः, बुध्यस्व बुध्यस्वेति ।
३००
"
स्वार्थेऽवधार्यमाणेऽनेकस्मिन् स्वार्थिकं द्विर्वचनं न बीप्तायामित्यर्थः । अस्मात् कार्षापणाद् इह भवद्भ्यां माषं माषं देहि, कार्षापणमनेकमाषसमुदायः अस्मात् कार्षापणान्माषाद् बहुतरं न दातव्यम् इत्यर्थः । पूर्वप्रथमयोरतिशये पूर्वं पूर्वं पुष्यन्ति, प्रथमं प्रथमं पच्यन्ते । तथा पूर्वतरं पूर्वतरं पुष्यन्ति, प्रथमतरं प्रथमतरं पच्यन्ते इति विकसनक्रियायाः पाकक्रियायाश्च यः पूर्वकालः प्रथमकालश्च तस्यातिशयोऽत्र विवक्ष्यते | यो यस्यात्मीयो यथायथमुच्यते । उपसर्गाणां प्रसमुपोदां पादपूरणे । प्रप्रपूज्य महादेवं संसंयम्य मनः सदा ।
उपोपहाय संसर्गमुदुद्गतः स तापसः ॥
यस्तु लोकतः सिद्धस्तत्र किं यत्नेनेति भावः ॥। ४९८ ।