________________
तृतीये आख्यातायाये द्वितीयः प्रत्ययपादः
२९३ यतीति यावत् । एतन्न वक्तव्यमित्याह - नात्मनेपदमित्यादि । अनित्यार्थञ्च लक्षणमनुसरतीति भावः । तथा चुरादिभ्य आत्मनेपदिभ्यः शेषा इनन्ताश्चुरादयः परस्मैपदिन एव भवन्ति, न तूभयपदिन इति ।। ४९७। ॥इति त्रिलोचनवासकृतायां कातन्त्रवृत्तिपत्रिकायामाख्याते तृतीयाप्याये
द्वितीयः प्रत्ययपादः समाप्तः॥
[क० च०]
शेषात् । ननु कथं तुदतीति प्रत्युदाहृतम्, तथाहि- तुदप्रभृतीनां सिचिर्क्षरणपर्यन्तानामेकादशानां विभाषितत्वात् तुदतीति पाठोऽशुद्ध एव । तथा च "तुदादेरनि" (३।५।२५) इत्यत्र टीकायां तुदादेरुभयपदिनोऽपि भाषायां परस्मैपदमेवाभिधीयते इत्युक्तम् । कुलचन्द्रस्तु भाषायां तुदादेस्तु तुदतीति परस्मैपदमित्याचष्टे, तन्मते तुदतीति पाठोऽपि संगच्छते । पनी- नैवमित्यादि । एतेन शेषेऽर्थे भवत्येवेत्यर्थमङ्गीकृत्याह-इहेत्यादि । तथा च वररुचिः- शेषं चतुर्विधमुक्तवान् । तथाहि,
अर्थादुपपदत्वे तु तथा चैवानुबन्धतः।
कारकाच्चैव विज्ञेयः शेष उक्तश्चतुर्विधः॥ कुलचन्द्रस्तु शुद्धकर्तरीत्याह । ननु यदि शुद्धकर्तरि भवतीत्युच्यते, तदा कथम् ‘असिश्छिनत्ति' इति करणकर्तृत्वात् ? सत्यम्, इह हि कर्तृत्वविवक्षायां करणत्वत्यागः । अत एव कर्मकर्तर्यपि स्यात् तदर्थं कर्मवद्भावः । तन्न, कर्मकर्तर्यपि कर्मत्यागात् शुद्धकर्तृत्वं स्यात् । ननु कथं 'प्रियामुखं किम्पुरुषश्चुचुम्बे' इति ? सत्यम् । क्रियाव्यतिहारे आत्मनेपदमिति । तथा 'इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे' (उ० रा० च०१।१) इति 'शासु अनुशिष्टी' (२।३९) इत्यस्य परस्मैपदित्वाद् 'आङः शास इच्छायाम्' (२।४६) इत्यस्य प्रयोगः । 'कदाचित् कुप्यते माता नोदरस्था हरीतकी' इति क्विबन्तादायिः । आय्यन्तादात्मनेपदम् । 'आलानं करिणां समे' इति कर्मकर्तर्यात्मनेपदम् । चुरादिभ्य इत्यादि। एतेन चुरादीनन्तत्वादुभयपदं नास्तीति सूचितम् । एतेन अर्चधातोश्चुरादावात्मनेपदिषु पाठात् 'अर्चयिष्यामो भवन्तमर्चय' इत्यादि वाक्यमशुद्धमेव, तथा 'अपहाय महीशमार्चिचत् सदसि त्वां ननु भीमपूर्वजः' इत्यपि माघस्य स्खलितमिति ।
केचित्तु ‘अर्चयमानं भीष्मादिकं प्रयुक्तवान् इत्येवार्थो विवक्षितः' इत्यपीच्छन्ति । यद्यपि शेषादिति पञ्चम्यन्तधातुसमानाधिकरणमिति । क्वचिदर्थे धातोः (र) शेषत्वा