________________
२८७
तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः [वि० प०]
पूर्व० । पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपेक्षते, स चावधिः सन्नेव श्रुतत्वादित्याह - सनः पूर्वो यो धातुरिति । तद्वदिति पूर्ववदित्यर्थः । पूर्वस्मादिति पूर्ववदिति पञ्चम्यन्ताद् वतिर्येन निमित्तेन सनः पूर्वस्माद् धातोर्यत् पदं दृष्टम्, तेनैव निमित्तेन सनन्तादपि तत् पदं भवतीत्यर्थः । रुरोचिषते इति । अनुदात्तानुबन्धेन निमित्तेन रोचते इति आत्मनेपदं दृष्टम्, तेनैव सनन्तादपि भवति । एवम् अन्यत्रापि निमित्तम् ऊह्यम् । इह व्यञ्जनादेर्युपधस्यावो वेत्यत्र संश्चेति वचनाद् विभाषया गुणः । अधिजिगांसते इति । अधिपूर्वः 'इइ अध्ययने' (२।५६) "सनीनिडोर्गमिः" (३।४।८६) इति गमिरादेशो "हनिगमोरुपधायाः"(३।८।१३) इति उपधाया दीर्घः । पापचिषते इति । पापच्यशब्दाच्चेक्रीयितान्तात् पापचितुम् इच्छतीति सन्, तत इडागमः, “अस्य च लोपः, यस्थाननि" (३।६।४९, ४८) इति यलोपः। अथेह कथम् आत्मनेपदं न भवति ? 'शिशत्सति, मुमूर्षति' इति शदिमृङोरपि सनः पूर्वमात्मनेपदं दृष्टमेव । यथा-शीयते, म्रियते इति । नैवम्, नहि शदिमृङ्मात्रमात्मनेपदनिमित्तम्, किन्तर्हि अन्नाशीरद्यतन्योऽपि शदिरनि आशीरद्यतन्योश्च मृङ् इति वचनात् । न चेह सनः पूर्वभागस्यान्विकरणाशीरद्यतनीनामात्मनेपदनिमित्तभूतानां सम्भवोऽस्तीति, तस्मानिमित्ताभावादेव न भवतीति ।
स्मृदृशीत्यादि । स्मरतेरुपलक्षणमुदाहरिष्यति । तथा दृशेरपि- दिदृक्षते । श्रुरनामतिरिति । न विद्येते आझती यस्येति विग्रहः । शुश्रूषते, उपशुश्रूषते । अनाङ् प्रतिरिति किम् ? आशुश्रूषति, प्रतिशुश्रूषति । अननुश्चेिति | न विद्यतेऽनुर्यस्येति विग्रहः । जिज्ञासते, प्रतिजिज्ञासते । अननुरिति किम् ? पुत्रमनुजिज्ञासति । यथा सुस्मूर्षते इति । स्मर्तुमिच्छतीति सन् | "स्वरान्तानां सनि" (३।८।१२) इति दीर्घत्वे, "उरोष्ठ्योपधस्य" (३।५।४३) इत्युर्, “नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः एतेभ्यः स्मृप्रभृतिभ्यः परस्मैपदित्वादप्राप्तमात्मनेपदं सनन्तेभ्यो विहितं रुचादेराकृतिगणत्वादिति ।।४९६।
[क० च०]
पूर्व० । पूर्वशब्दोऽत्र पूर्वसम्बन्धिनि पदविधाने वर्तते । तेनायमर्षः- पूर्वस्य सम्बन्धि यत् पदं तेन तुल्यं सनन्तादपि भवति । तर्हि कथं पूर्वस्मात् पदविधानेन सनन्तात् पदविधानं तुल्यम्, एकनिमित्तत्वात् । येन निमित्तेन पूर्वस्मादुभयपदं विहितम्, तेनैव सनन्तादपि तदिति निमित्तातिदेशोऽयमिति रक्षितः । वस्तुतस्तु पूर्वसदृशात् सनन्तात् कार्यं भवतीति सूत्रार्थः । कार्यं चात्रात्मनेपदप्रकरणात् परस्मैपदादपि तथा उभय