________________
२८६
कातन्त्रव्याकरणम्
[दु० वृ०]
सनः पूर्वो यो धातुस्तद्वत् सनन्तादपि तत् पदं भवति । रुरोचिषते, अधिजिगांसते, पापचिषते, शिश्येनायिषते, पिपक्षति, पिपक्षते ।
स्मृदृशी च सनन्तौ तु रुचादौ श्रुरनाप्रतिः । अननुर्ज्ञाश्च विज्ञेयो यथा सुस्मूर्षते इति ॥
[दु० टी० ]
पूर्व० । सन् अन्ते यस्येति विग्रहः । पूर्वस्मादिव पूर्ववत् । पूर्ववत् सनन्तस्येदं विशेषणम्, पूर्वस्यावधिः सन्नेव श्रुतत्वाद् इत्याह-सनः पूर्व इति । तद्वदिति । येन निमित्तेन धातोः पदं दृष्टं तेनैव निमित्तेन सनन्तादपि भवतीत्यर्थः । नेर्विश् निविविक्षते । परिव्यवेभ्यः क्रीञ् - परिचिक्रीषते इत्यादयः इति । अन्तग्रहणं पदविधौ सनन्तस्यैव निमित्तभावार्थम्, अन्यथा सनोऽवधिभावोपयुक्तत्वात् सनन्तादिति न लभ्यते, नहि द्वितीयं सन्ग्रहणमस्ति येनैतत् स्यात् । कुतस्तर्हि धातुमात्रादिति चेद् आत्मनेपदाद्यनुक्रमणमनर्थकं स्यात् । अथ प्रत्ययान्तात् स्यात् सन्ग्रहणमनर्थकं पूर्ववत् प्रत्ययादिति एवं वाच्यं स्यात् तस्मात् प्रत्यासन्नं सनं त्यक्त्वाऽन्यस्याश्रुतस्य कल्पनेऽतिप्रसङ्गात् सनन्तादेव भविष्यतीति प्रतिपत्तिगौरवं स्यात् । अथ तदन्तं विशिष्य पश्चात् सनः पूर्व इति सम्बन्ध:, तथापि सम्मोह एव स्यात् ।
1
योगापेक्षया पूर्वग्रहणं प्रागस्माद् योगाद् येभ्यः पदमुक्तं तेभ्यः सनन्तेभ्योऽपि भवतीति । न च वक्तव्यम् इनञ् यजादय एव पूर्वशब्दवाच्याः स्युः, तदधिकृत्य सनन्तेन ते विशिष्यन्ते इति पूर्वग्रहणमनर्थकं स्यात् । 'शिशत्सति, मुमूर्षति' इति । यद्यपि शदिमृङोः सनः पूर्वमात्मनेपदं दृष्टम् - शीयते म्रियते । तथाप्यत्र न भवति । न हि शदिमृङितिमात्रमेव निमित्तम्, किन्तर्हि अन्नाशीरद्यतन्योऽपि शदिरनीति आशीरद्यतन्योश्चेति वचनात् 'जुगुप्सते' इत्यादौ यथा आत्मनेपदं तथा तत्रैवोक्तमिति । स्मृदृशी इत्यादि । स्मृ चिन्तायां परस्मैपदी तथा दृशिर् प्रेक्षणे सम्पूर्वस्तु रुचादिरेव । " समो गमृच्छि० " ( ३।२।४२, २०) इत्यादिना दिदृक्षते । एवं श्रुरनातिरिति न विद्येते आप्रती यस्येति विग्रहः । श्रु श्रवणे - शुश्रूषते । अनाङ्प्रतिरिति किम् ? आशुश्रूषति, प्रतिशुश्रूषति । अननुर्ज्ञाश्चेति न विद्यतेऽनुरस्येति विग्रहः । “निह्नवे ज्ञा” (३।२।४२-३९) इत्यादिभिर्गणसूत्रै रुचादित्वं सिद्धमेव । अन्यत्र - वचनं जिज्ञासते धर्मम् | अननुरिति किम् ? पुत्रमनुजिज्ञासति । वृत्तौ यथा सुस्मूर्षते इति, उपलक्षणमात्रमेतत् || ४९६ ।