________________
२८८
कातन्त्रव्याकरणम्
पदानुवृत्तौ पूर्ववदित्यस्य वैयर्थ्यात् । सादृश्यं च यदि प्रत्यासत्त्या विधीयमानकार्यद्वारैवाभिमतं स्यात् । तदा सनन्तस्य तादृक् सादृश्यं प्राक् सिद्धम् इतीदानीमेव विधीयते इति सनन्तः पूर्ववद् भवतीत्येवं वक्तुम् उचितम् । तस्माद् विधेयस्य यन्निमित्तं तद्द्द्वारैव सादृश्यम् तेन पूर्वस्य यदात्मनेपदादिनिमित्तता, तद्विशिष्टात् सनन्तादात्मनेपदादिकं भवतीत्यर्थः ।
ननू पूर्वनिमित्तस्य ङानुबन्धादेः कथं सनन्ते सम्भवः, ततः सम्भावनवैयर्थ्यमिति वाच्यम्, साक्षाद् विशिष्टत्वाभावे परम्परया तद्विशिष्टत्वासत्त्वात् प्रकृतिद्वारैव प्रकृत्यनुबन्धादिसम्बन्धात् । न च वचनं विना परम्परया सन्निमित्तविशिष्टाद् विधिः सम्भवतीति भावः। सम्पूर्वस्येणो गमादेश यथात्मनेपदम्, तथा हनिङ्गमोरित्यत्र वक्ष्यामः । अन्ये तु कार्यातिदेशोऽयं पूर्वसम्बन्धिकार्यं सन्वद् भवतीत्यर्थः । एवं चार्थान्तरे आत्मनेपदिनोऽपि सनि कृतेऽर्थान्तरव्यावृत्त्यात्मनेपदं स्यादिति न वाच्यम् । प्रत्यासत्त्या सादृश्यात् पूर्ववदात्मनेपदं सादृश्ये वद्ग्रहणात् काकाक्षिन्यायेन सनन्तस्य विशेषणमाहुः । अन्यथेति सनः पूर्वो यस्तत्सदृशो भवतीति कार्यातिदेशः सामान्यत एव विधिः स्यादित्यर्थः, कुतस्तदतिरिक्तविधिरिति शेषः । अनर्थकमिति । सनः प्रकृते क्वचिदात्मनेपदस्य क्वचित् परस्मैपदस्य च दृष्टत्वात् सामान्यतस्तत्रातिदेशे कर्तरि रुचादीत्यादिवचनमनर्थकं स्यादित्यर्थः । सनन्तग्रहणमिति पूर्वग्रहणमित्यपि बोध्यम् । अग्रे पूर्ववत् प्रत्ययादित्यनर्थकमेव |
वस्तुतस्तु प्रत्ययादिति विधिवाक्यम् । तथाहि सनः प्रकृते क्वचिद् आत्मनेपदस्य क्वचित् परस्मैपदस्य च दृष्टत्वात् प्रत्ययान्तेभ्यः सामान्यतस्तत्रातिदेशे क्रियमाणे पूर्वसूत्रादुभयपदस्यानुवृत्त्या प्रत्ययान्तराद् उभयपदम् इत्येव वक्तुमुचितम्, किमतिदेशेनेति भावः । मैत्रेयेणापीदृगेव एतन्न बुद्ध्वा सन्ग्रहणमपहाय प्रत्ययादिति कृते गौरवम्, तथापि प्रतिपत्तिलाघवम् इष्टमिति सारसमुच्चयकृता उक्तम् । योगेनेति न वक्तव्यम् इत्यनेनैव सम्बन्धः । एवं हि अनन्तरत्वात् पूर्वयोगनिर्दिष्ट एव पूर्वशब्दवाच्यः स्यादिति असदृशात् सनन्तात् कार्यं विधीयमानं सिद्धशास्त्रवत् कार्यनिमित्तत्वाच्च सादृश्यग्रहणाद् येभ्य उभयपदं विहितं तेभ्योऽप्युभयपदमित्येव पर्यवस्यतीत्यर्थः । पूर्वग्रहणमिति । अत एव यथा इन्ञ्यजादेरुभयपदम्, तथा सनन्तादपि भूप्रभृतेरित्यर्थो नाशङ्क्यते । शदिरनीति । एवम् अनुचिकीर्षतीत्यत्र सूचनाद्यर्थेऽप्यात्मनेपदस्य निमित्तमस्ति, तथापि अनुपरिभ्यां च कृञः परस्मैपदस्य वक्ष्यमाणत्वात् सूचनाद्यर्थस्यापि निमित्तता नाश्रीयते