________________
तृतीये आख्याताप्याये द्वितीयः प्रत्पपपादः
२८१ मावरणादिक्रियारभ्यते तत्फलं कण्टकादयो न लभन्ते इति स्वरितो जितः कत्रभिप्रायक्रियाफल इति वचनात् । कथं तत्रात्मनेपदम् ? पूर्वं परस्मैपदविषयेऽप्यात्मनेपदं दर्शितम् । इदानीमात्मनेपदविषये परस्मैपदं दर्शयन् परस्योभयथापि व्यभिचारमाह-फलवतीत्यादि । आत्मनेपदविषवत्वं तु स्वरितो जितः कत्रभिप्राये क्रियाफले इति वचनात् ।
अस्यार्थः- स्वरितो यजादेर्जितो ज्यनुबन्धात् कभिप्राये क्रियाफले आत्मनेपदं भवति । यदि क्रियासाध्येन फलेन कर्ता तद्वान् स्यादित्यर्थः कर्तारमभिप्रैतीति कर्मण्यण् इनन्ताण्णिचश्चेति वचनात् प्राप्नोति अपपूर्वाद् वदतेरनुपसर्गाच्च जानातेः । "अपाद् वदः, अनुपसर्गानः" (अ० १।३।७३, ७६) इत्येताभ्यां फलवति कर्तरि विधीयमानमात्मनेपदं स्यादिति । ननु कथमयं व्यभिचारः ? यावता स्वशब्दादुपपदादिह कर्तुः फलवत्त्वं प्रतीयते, तत्र च "विभाषोपपदेन प्रतीयमाने" (अ० १।३।७७) इति वचनमाचक्षाणेन परेणापि परस्मैपदं पक्षे प्रतिविहितमेवेति । किञ्च इतोऽपि न व्यभिचारः । पदसंस्कारकं हि व्याकरणम् । तत्र पूर्वं परस्मैपदं विधाय पश्चात् स्वशब्देन संबन्धात् कर्तुः फलवत्त्वावगतिरिति ? सत्यम् । यत्र तर्हि पदान्तरमन्तरेणापि तु स्वपदादेव कर्तुः फलवत्त्वं प्रतीयते । तत्र का गतिरित्याह - अपदान्तरद्योत्येऽपीति । तथा च किरातवाक्यम् - 'तनोति शुभ्रं गुणसम्पदा यशः' इति । यथा 'भोगं करोति, श्रियं दधाति, मारयति शत्रून्' इति बहवः शिष्टप्रयोगा दृश्यन्ते इति । यजेरित्यादि। कर्तुः फलवत्त्वविवक्षाऽशक्यपरीहारेत्युक्तम् । अतस्तया विवक्षया मतान्तरेणापि यजेरात्मनेपदेन भवितव्यमेवेत्यर्थः । यजेरिहोपलक्षणम् इनन्ताअनुबन्धादित्यर्थः।। ___अन्ये तु मतमिति शर्ववर्मणो मतमाचक्षते । तत्पुनः स्वमतानुगतं न भवतीत्युपेक्ष्यते । न हीह कर्तुः फलवत्त्वमपेक्षितम्, येन विवक्षयेत्याह – अथात्मनेपदस्य विवक्षयेति । अथ किमर्थं अनुबन्धाद् यजादेश्चोभयपदविधानम् उभयतोभाषेति गणे श्रवणात् सिद्धमेवेति ।तथाहि परस्मैपदम् आत्मनेपदं चोभयपदमुच्यते । तस्मिन्नुभयस्मिन् भाषा अस्येत्युभयतोभाषा इत्याह -गणेत्यादि ।गणकारवचनप्रमाणार्थमित्येतदर्थःप्रयोजनमस्येति । अथवा प्रमितः प्रमाणं प्रामाण्यमुच्यते । गणकारवचनस्य प्रमाणं तदेवार्थः प्रयोजनम् अस्येति । येषामेव धातूनां गणकृतोभयतोभाषत्वमुक्तम्, तेषामेव सूत्रकृताप्युभयपदं विधीयते इति । एकसंवादनिबन्धनं गणकारवचनस्य प्रामाण्यं यथा स्यादित्यर्थः ।।४९५/
[क० च०]
इञ० । 'यज - वप' इत्यादीनां नवानामिह न ग्रहणम्, व्येवेञोर्षकारानुबन्धबलात्, यावता ञकारं विनाप्युभयपदं सिध्यतीति । यजादिद्वारेणेति । अथ 'वृक्ष