________________
२८०
कातन्त्रव्याकरणम्
दमु- दमयते |आङ् यम - आयमयते |आङ्यस-आयासयते |परिमुह –परिमोहयते । रुच - रोचयते । नृती - नर्तयते । यथासम्बन्धं परस्मैपदविवक्षाया अपवादः।
अयतन्यां पुतादीनां वृतादेः स्यसनोस्तथा।
आकृतिग्रहणादेव श्वस्तन्यामुभयं कृपेः॥ कृपूपर्यन्ता पुतादयः । युतायन्तर्गणश्च वृतादिः । व्यधुतत्, व्यद्योतिष्ट । वर्त्यति, वर्त्तिष्यते । विवृत्सति, विवर्तिषते । कल्प्स्यति, कल्पिष्यते । चिक्लृप्सति, चिकल्पिषते । परेण पूर्वस्य न बाधा । क्लृप्ता, कल्पिता इति ।।४९५ ।
[वि० प०]
इञ० । इन्प्रत्ययोऽर्थाद् धातोरन्तो अकारश्च स्थितिमान् नास्तीत्यनुबन्धो गम्यते इत्याह - इनन्ताञ्जनुबन्धादिति । उदात्तानुदात्तयोर्मिश्रः समाहार इत्युक्तमेवेत्याह - समाहार इत्यादि | कश्चित् फलवति कर्तर्यात्मनेपदम्, अफलवति कर्तरि परस्मैपदमिति ब्रूते, तदिह न वक्तव्यम, व्यभिचारादित्याह- अफलवतीत्यादि । इह यद्यपि 'कण्टकैर्वृक्षं पुरुषाः परिवारयन्ते, तथापि विवक्षावशात् करणस्यापि कर्तृत्वम् । यथा - असिश्छिनत्तीति | न चात्र कर्तृणां कण्टकानामावरणफलोपभोक्तृत्वम्, अपि तु पुरुषा एव रक्षितवृक्षफलं भुञ्जते । तथा शुष्कव्रीहीन् क्षोदयित्वा पुरुषा एव भुञ्जते, न त्वातपस्य व्रीहिशोषणफलमस्तीति ।महाकविनिबद्धःप्रयोगश्च दृश्यते | यथाह भारविः'तव दर्शनं किं न धत्ते' इति । न चेह दर्शनस्य कर्तुः फलमस्तीति, किन्तर्हि द्रष्टुरिति ।
तथा मयूरोऽपि 'कमलवनोद्घाटनं कुर्वते ये' इति, रश्मय इत्यर्थः । न. च तेषां कमलवनोद्घाटनफलोपभोक्तृत्वम्, किन्तर्हि अन्येषामेव । 'माणवकं ब्रूते' इति धर्मादीन् माणवकं ब्रुवाणस्य कर्तुर्न फलम्, अपि तु माणवकस्यैव कर्मण इति । ‘मरीचीन वितनुते' इति मरीचीन् प्रसारयतो नादित्यस्य फलमस्ति, अपि तु लोकस्य मरीचिभिरपध्वस्ते तमसीति तत्कर्मप्रवर्तनादिति । अथैष्वपि कर्तुः फलपद् विवक्षा । यद्येवम् – 'नियुक्तः कटं कारयते, कटं कुरुते कर्मकारः । पचन्ते सूपकाराः, यजन्ते याजकाः' इति कथन भवति ? यद्यचेतनेष्वपि कण्टकादिषु फलवत्त्वं विवक्षितम्, सचेतनेषु तदविवक्षाशक्यप्रतिहारेति।
अथ यदर्थं यागादिक्रियारभ्यते तत्प्रधानं फलममी याजकादयो न लभन्ते, किन्तर्हि दक्षिणादिकम् । अतस्तेषामफलवत्त्वान्नात्मनेपदम् । यदाह जयादित्यः- यद्यपि दक्षिणादिकं कर्तुः फलमिहास्ति, तथापि न तदर्थं क्रियारम्भः इति । यद्येवम्, यदर्थ